________________
न चेयं संसारसागरनिस्तारतरी, लौकिकानुष्ठानस्य संसाराविनामावित्वात् । कयं तर्हि शुद्धाऽहिंसा ज्ञायते इत्यत्राह, सा शुद्धाऽहिंसा, हेतुस्वरूपानुबन्धैः, सूत्रात्सर्वज्ञवचनाद, ज्ञायते, तथाहि-हेतुतस्तावदयतनाऽपरर्यायात्प्रमादात् , स्वरूपतश्च प्राणव्यपरोपणतः, अनुवन्धतश्च पापकर्मबन्धार्जितदुःखलक्षणात्, इह हिंसा प्रतीयते। तथा च सूत्रम्-. . .
"अजयं चरमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं "॥ इति
एतद्वैलक्षण्यं चाहिंसायां योजनीयं, यतनाया हेतुत्वात्परप्राणाव्यपरोपणस्य स्वरूपत्वादात्यन्तिकमुखलाभस्य चानुबन्धत्वात्। तथा च शुद्धाहिंसाप्रतीतिविश्वासो वचनविश्वासाचद्विवारयाहिंसाधीविश्वासादित्यन्योन्याश्रयामाहिंसादेशकत्वं वचनविश्वासे बीजमिति स्वातन्त्र्येणैवागमस्य परलोकविधौ प्रवर्तकत्वादलवत्त्वमव्याइतमिति फलितम् । यथोक्तम्
"परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसनमव्यो मतिमान् श्रद्धापनसमन्वितः॥१॥ पापामयोषषं शाखं शास्त्र पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शाखं सर्वार्थसाधनम् ॥२॥" इति ।
विश्वासबीजं चात्राऽऽशोक्तत्वमेव, रागद्वेषमोहानामेवावृतवचनबीजत्वेन तत्क्षयवतो भगवतो वचनस्यानृतत्वशानुपपत्तेः। . . तदुवाच वाचकमुख्य:
२ अयतं परंश्च प्राणिभूतापि हिनस्ति ।
बध्नाति पापकं कर्म उत्सव भवति बहु फलमिति। ..