________________
एवं सोऽयं प्रतिपाद्यप्रतिपादकभावसम्बन्धोऽपि सामर्थ्यागम्यते । ' पुनः कीदृशमित्याह-उत्कृष्टमागमैकाधिकारिकत्वेन मुमुक्षपादेय
वादितरग्रन्थातिशयितं, अनेनाधिकारी प्रत्यपादि। किमर्थमित्याह-भव्यानां भगवद्भहुमानितयासन्नसिद्धिकानां दुःषमाकालदोषवशादनतिसूक्ष्मधियां दुरवबोधविप्रकीर्णतत्तचवचनार्थानां तत्वजिज्ञासनां, बोधनार्थ सङ्कलितकतिपयोपादेयार्थपरिज्ञानार्थ, अनेन प्रयोजनमुक्तं, परमप्रयोजनस्य मोक्षस्याविशेषेऽपि सङ्कलिततथाविधार्थतत्वपरिच्छेदस्यास्य विशेषप्रयोजनत्वात् ॥१॥ , प्रतिज्ञातमेवाह
लखूण माणुसत्तं सुदुल्लहं वीयरागपण्णत्ते । • धम्मे पवट्टियव्वं निउणेहिं सुत्तणीईए ॥२॥ - लब्ध्वा प्रकृतितनुकषायत्वादिगुणसमाजेनावाप्य, सुदुर्लभमज्ञानप्रमाददोषप्रभवप्रतिपातेन मुदीधैकेन्द्रियादिकायस्थित्यवगुण्ठितसंसारचक्रवालपरिन्नमणान्तरिततया समयप्रसिद्धैश्चोल्लकपाशकादिदृष्टान्तरतिदुरासादपुनरुत्पत्तिकम् , मनुजत्वं धर्मश्रवणादिसामग्र्युपहितं नरभवम्, वीतरागप्रज्ञप्ते सर्वज्ञभाषिते, धर्मे तपश्चरणाधनुष्ठाने, प्रवर्तितव्यं यथाशक्त्युधमो विधेयो, निपुणैधर्मपरीक्षादक्षः, सूत्रनीत्या सूत्राज्ञानतिक्रमेण, आज्ञाव्याकोपस्य महापायनिबन्धनत्वात् ॥२॥
___अथागमप्रमाणे बलवत्त्वाभिमानिनामेव भवतां सूत्रनीत्यवलम्बनाग्रहः स च न शोभन इत्यभिप्रायवान् परः शङ्कतेनणु विप्पडिसिद्धेसु वयणेसुं कस्स होइ वीसासो ।
सो धम्मो कायव्वो जत्थ अहिंसा परमरम्मा ॥३॥ ... नन्वित्याक्षेपे, विप्रतिषिद्धेषु सर्वदर्शनिनां परस्परमसम्मतेषु,