Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्ताव श्रीओपपातिकादीनां द्वादशानामुपांगानां चतुःशरणादिकानां दशानां प्रकीर्णकानां च गाथाद्यनुक्रमः भोः परमपुरुषपरमेश्वरप्रणीताव्याबाधाविरुद्धहितोपदेशमात्रप्रवचनप्रवणागमामृतपानपुष्टान्तःकरणाः तिनः ! सफलषन्त्वेतस्य शास्त्रस्य साचरणश्रद्धानवृद्धिक्रियाद्वारा ग्रहणेन मे परिश्रमलेशं, प्राक्तावत् १ नन्दी २ अनुयोगद्वार ३ आवश्यक४ ओघनियुक्ति ५ दशवकालिक ६ पिण्डनियक्ति ७ उत्तराध्ययनसूत्राणां गाथाकारादिक्रमविषयानुकमयुगलान्युन्मुद्राप्य निर्णय सागरमुद्रणालये श्रीमत्याऽऽगमादयसमित्या प्रतीनां सार्धद्वादशशती प्रचारिता, पण्यं च रूप्यकद्वयं स्थापितं पश्चात्तु श्रीमालवदेशान्तर्गतश्रीऋषभदेवजीकेशरीमलेत्यभिधया रतांघरसंस्थया ८ आचारांग ९ सूत्रकृतांग १० स्थानांग ११ समवायांग १२ श्रीभगवत्यपराभिधव्याख्याप्रज्ञप्ति १३ शातधर्मकथा १४ उपासक १५ अन्तकृदशा १६ अनुत्तरौपपातिकदशा १७ विपाकश्रुत १८ प्रश्नव्याकरणांगसूत्राणां गाथाकारादिविषयानुक्रमयुगलानि श्रीइंद्रपुरीयश्रीजैनबंधुमुद्रणालयश्रीभावनगरीयमहोदयमुद्रणालयद्वारा मुद्रापयित्वा पंचशती पुस्तकानां प्रचारिता, पण्यं च चतुष्टयं रुप्यकाणां धृतं, तत: शेषाणां गाथाकारादिविषयानुक्रमयुगलानामुन्मुद्रणायायमुपक्रमः श्रीसुरतद्गीयजनपुस्तकप्रचाराख्यसंस्थया क्रियते । प्रत्यश्चात्र सार्धद्विशतीमात्राः पण्यं च साधं रुप्यकचतुष्टयं ध्रियते । एतच्च वर्तमानयुगस्थितिप्रेक्षिणां सुशानामवभासिष्यतेऽल्पतममेव । अत्र च १९ श्रीऔपपातिक२० श्रीराजप्रश्नीय २१ जीवाजीचाभिगम २२ प्रशापना २३-२४ सूर्यचंद्रप्राप्तियुग्म २५ जंबूद्वीपप्राप्ति २६ उपांगपंचकमयनिर. यावलिका २७ चतुःशरणादिप्रकीर्णकदशकानां गाथाकारानुक्रमो लघुर्वृहन् विषयानुक्रमश्च समुन्मुद्रिताः, तत एतत्प्रयोगं यथार्ह कृत्वा सफलयन्तु सज्जना में ज्ञानाभ्याससहायमनोरथमित्याशासे। २००५ कार्तिकशुक्ला पूर्णिमा, सुरत. श्रीश्रमणसंघसेवक आनन्दसागरः For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 183