Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 391
________________ दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचरिते ॥३४३॥ सर्गः श्रीमहावीरजिनचरितम् । धरणेन्द्रोऽप्युवाचैवं चंडप्रद्योतभूपतिः । देवकीयपुरं तत्र त्वन्नाम्ना कारयिष्यति ।। ५५२ ।। कृतार्धपूजस्त्वायासीरिति कालेन गच्छता । गुप्तव मिथ्याग्भिः सा प्रतिमा पूजयिष्यते ।। ५५३ ।। तस्याः प्रतिकृतिस्तैश्च बहिः संस्थापयिष्यते । आदित्यो भायलस्वामिनामाऽयमिति वादिभिः ।। ५५४ ।। ततश्च भायलस्वामिसूर्य इत्यखिलो जनः । पूजयिष्यति दंभोऽपि सुप्रयुक्तो न निष्फलः ।। ५५५ ॥ अभ्यधाद्भायलोऽप्येवमाः पापोऽस्मि धिगेव माम् । अत्याहितं ह्यापतितमशिवं मत्कृतं ह्यदः ।। ५५६ ॥ देवाधिदेवप्रतिमाप्रतिकृत्या दुराशयैः । मम नाम्नाऽऽदित्य इति कृत्वा यत्पूजयिष्यते ।। ५५७ ॥ धरणोऽप्यभ्यधान्मा गाः शुचं किं क्रियतेऽनघ! । एतद्धि दुःषमाकाललीलायितमनुज्ज्वलम् ।। ५५८ ।। ततो नागकुमाराभ्यां पथा तेनैव तत्क्षणम् । नीत्वाऽमुच्यत तत्रैव स्वप्नदर्शीव भायलः ।। ५५९ ।। इतश्च नगरे वीतभये राजाऽप्युदायनः । नित्यकर्मरतः प्रातर्देवताऽऽवसथं ययौ ।। ५६० ॥ ददर्श चाग्रे प्रतिमा म्लानमाल्यामुदायनः । अचिन्तयच्च काऽप्यन्या प्रतिमेयं न सा पुनः ।। ५६१ ॥ आरोपितानि तस्यां पुष्पाण्यहन्यपरेऽपि हि । तत्कालावचितानीवादृश्यन्त किमिदं हहा ।। ५६२ ।। स्तंभलमा सदैवास्थादिह पाञ्चालिकेव या । सा दासी देवदत्तापि विलीनेव न श्यते ।। ५६३ ।। निदाघे मरुवारीव नष्टश्च करिणां मदः । तदागादनिलवेगो नियतं गन्धसिन्धुरः ॥५६४ ॥ १ न्याहि ।२ प्रातश्च । उदायननृपतिचरित्रम् । ॥३४३॥


Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458