Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४६॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
जाते पर्युषणापर्वण्यन्यदोदायनोऽकृत । उपवासं स हि श्राद्धस्तस्य देवस्य शासनात् ।। ५९१ ॥ सूदोऽथापृच्छत्प्रद्योतं किमद्य नृप ! भोक्ष्यसे ? । तच्छुत्वाऽवन्तिनाथोऽपि क्षोभादिदमचिन्तयत् ।। ५९२ प्रश्नो ह्यकृतपूर्वोऽयमद्य क्षेमावहो न मे । उपहासवचो ह्येतद्वधबन्धादिसूचकम् ।। ५९३ ।। सूपकारमपृच्छच्च किमद्य प्रश्नकारणम् ? । विद्याकृष्टेव रसवत्यागाद्धि समये सदा ।। ५९४ ।। सूदोऽप्यकथयद्राजन्नद्य पर्युषणोत्सवः । उपोषितोऽस्ति नः स्वामी सान्तःपुरपरिच्छदः ।। ५९५ ॥ राजार्थं या रसवती भोजितोऽसि तया सदा । अधुना तु त्वदर्थे तां करिष्यामीति पृछ्यसे ।। ५९६ ।। प्रद्योतः स्माह हे सूदोपवासोऽद्यास्तु मेऽपि हि । ज्ञापितं साधु पर्वेदं श्रावको पितरौ मम ॥ ५९७ ।। सूदोऽप्युदायनायाऽऽख्यत्तत्प्रद्योतस्य भाषितम् । उदायनोऽवददसौ धूर्तो जानाति वैशिकम् ॥ ५९८ ।। यादृशे तादृशे वाऽस्मिन् कारागारनिवासिनि । न मे साध्वी पर्युषणेत्यमुचत्तमुदायनः ॥ ५९९ ॥ प्रद्योतं क्षमयामास पर्वोचितमुदायनः । किरीटमेव ते पूर्वं बबन्धुौलिमंडनम् ।। ६०१ ॥ प्रद्योतायावन्तिदेशमुदायननृपो ददौ । वर्षारात्रे त्वतिक्रान्ते स्वयं वीतभयं ययौ ।। ६०२ ॥ शिबिरे तत्र वणिजस्तस्थिवांसस्तथैव हि । तैरेव वसमानं तज्जातं दशपुरं पुरम् ॥६०३ ॥ प्रद्योतोऽपि वीतभयप्रतिमायै विशुद्धधीः । शासनेन दशपुरं दत्त्वाऽवन्तिपुरीमगात् ।।६०४ ।।
उदायननृपतिचरित्रम् ।
||३४६॥

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458