Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 427
________________ त्रिषष्टिशलाका पुरुषचरिते ॥३७९ ॥ क्रोधमानमायालोभाभिभूतेन मया सदा । कृतं यद्यच्च हिंसाऽऽदि तत्त्रिधापि धिगस्तु मे ।। ४०१ ॥ एवमाराधनां कृत्वा नमस्कारपरायणः । विपद्य स्वर्गसुखभाजनतां ययौ ॥ ४०२ ॥ अशोकचन्द्रोऽपि पुरीं तां हलैर्युक्तरासभैः । खेटयित्वा क्षेत्रमिव स्वां प्रतिज्ञामपूरयत् ॥ ४०३ ॥ तीर्त्वा प्रतिज्ञां चंपेशी दुस्तरामापगामिव । जगाम चंपानगरीमुत्सवेन गरीयसा ।। ४०४ ।। अन्यदा पावयन् पृथ्वीं विहारेण जगद्गुरुः । जगाम चंपां श्रीवीरस्तत्रैव समवासरत् ।। ४०५ ।। श्रीवीरस्वामिनः पार्श्वे तत्र कालादिमातरः । विरक्ताः सूनुनिधनात् प्राव्रजञ्च्छ्रेणिकप्रियाः ॥ ४०६ ।। त्रैलोक्यसंशयच्छेदकारकं परमेश्वरम् । वन्दितुं तत्र समवसरणे कूणिकोऽप्यगात् ।। ४०७ ।। त्वा नाथं यथास्थानमुपविश्याथ कूणिकः । पप्रच्छ लब्धावसरः शिरस्यारचिताञ्जलिः ॥ ४०८ ।। आजन्माप्यपरित्यक्तकामभोगा भवन्ति ये । कां नाम ते गतिं यान्ति चक्रिणः परमेश्वर ! ।। ४०९ ।। स्वाम्याख्यात्ते हि गच्छन्ति सप्तमीं नरकावनिम् । पप्रच्छ कूणिको भूयो भाविनी मम का गतिः ? ।। ४१० ।। आचख्यौ भगवान् षष्ठीं नरकोर्वीं गमिष्यसि । कूणिकः स्माह किमहं न हि यास्यामि सप्तमीम् ॥ ४११ ।। भगवानप्युवाचैवं चक्रवर्त्येव न ह्यसि । सति धर्मिणि धर्मा हि चिन्त्यन्ते श्रेणिकात्मज ! ॥ ४१२ ॥ अपृच्छत् कूणिकः किं न चक्रयहं परमेश्वर ! । ममापि चक्रितुल्याऽस्ति चतुरंगा वरूथिनी ॥ ४१३ ॥ १ "स्थर । दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिनचरितम् । कुणिकस्य मृत्युः । ।।३७९ ।।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458