Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 426
________________ त्रिषष्टि दशमं पर्व द्वादशः शलाकापुरुषचरिते सर्गः ॥३७८॥ श्रीमहावीरजिनचरितम् । दूतेन चेटकवचस्याख्याते कूणिकोऽपि हि । किं याचितमिति हीणस्तथैव प्रत्यपद्यत ।।३८७ ।। इतश्च सत्यकिर्नाम सुज्येष्ठासूनभश्चरः । दौहित्रश्चेटकस्यागाच्चिन्तयामास चेति सः ।। ३८८ ॥ मातामहप्रजामेतां लुट्यमानामरातिभिः । कथं द्रक्ष्यामि तदिमां नयाम्यन्यत्र कुत्रचित् ।। ३८९ ।। इति तन्नगरीलोकं सर्वमुत्पाटय विद्यया । निनाय नीलवत्यद्रौ लालयन् पुष्पदामवत् ।। ३९० ।। अथ मृत्युश्रियमिव बद्ध्वाऽयःपुतिकां गले । चेटकोऽनशनं कृत्वाऽविक्षदस्ताघवारिणि ॥३९१ ।। स मज्जन् धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु ऽत्रुटितायुषाम् ।। ३९२ ।। धरणेन श्लाघ्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग्रणादिव ।। ३९३ ।। अर्हत्सिद्धसाधुधर्मान्मंगल्यान्मंगलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् ।। ३९४ ।। जीवाजीवादितत्त्वोपदेशकाः परमेश्वराः । बोधिप्रदाः स्वयंबुद्धा अर्हन्तः शरणं मम ॥३९५ ।। ध्यानाग्निदग्धकर्माणस्तेजोरूपा अनश्वराः । अनन्तकेवलज्ञानाः सिद्धाश्च शरणं मम ।। ३९६ ।। निरीहा निरहंकारा निर्ममाः समचेतसः । महाव्रतधरा धीराः साधवः शरणं मम ।। ३९७ ।। अहिंसासूनृतास्तेयब्रह्माकिंचनतामयः । केवल्युपज्ञः परमो धर्मश्च शरणं मम ।। ३९८ ॥ अपि जन्मशतैर्यद्यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः ।।३९९ ॥ गृहिधर्म द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् ।। ४०० ॥ चेटकस्य पराजयः । ॥३७८॥

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458