________________
त्रिषष्टि
दशमं पर्व द्वादशः
शलाकापुरुषचरिते
सर्गः
॥३७८॥
श्रीमहावीरजिनचरितम् ।
दूतेन चेटकवचस्याख्याते कूणिकोऽपि हि । किं याचितमिति हीणस्तथैव प्रत्यपद्यत ।।३८७ ।। इतश्च सत्यकिर्नाम सुज्येष्ठासूनभश्चरः । दौहित्रश्चेटकस्यागाच्चिन्तयामास चेति सः ।। ३८८ ॥ मातामहप्रजामेतां लुट्यमानामरातिभिः । कथं द्रक्ष्यामि तदिमां नयाम्यन्यत्र कुत्रचित् ।। ३८९ ।। इति तन्नगरीलोकं सर्वमुत्पाटय विद्यया । निनाय नीलवत्यद्रौ लालयन् पुष्पदामवत् ।। ३९० ।। अथ मृत्युश्रियमिव बद्ध्वाऽयःपुतिकां गले । चेटकोऽनशनं कृत्वाऽविक्षदस्ताघवारिणि ॥३९१ ।। स मज्जन् धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु ऽत्रुटितायुषाम् ।। ३९२ ।। धरणेन श्लाघ्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग्रणादिव ।। ३९३ ।। अर्हत्सिद्धसाधुधर्मान्मंगल्यान्मंगलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् ।। ३९४ ।। जीवाजीवादितत्त्वोपदेशकाः परमेश्वराः । बोधिप्रदाः स्वयंबुद्धा अर्हन्तः शरणं मम ॥३९५ ।। ध्यानाग्निदग्धकर्माणस्तेजोरूपा अनश्वराः । अनन्तकेवलज्ञानाः सिद्धाश्च शरणं मम ।। ३९६ ।। निरीहा निरहंकारा निर्ममाः समचेतसः । महाव्रतधरा धीराः साधवः शरणं मम ।। ३९७ ।। अहिंसासूनृतास्तेयब्रह्माकिंचनतामयः । केवल्युपज्ञः परमो धर्मश्च शरणं मम ।। ३९८ ॥ अपि जन्मशतैर्यद्यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः ।।३९९ ॥ गृहिधर्म द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् ।। ४०० ॥
चेटकस्य पराजयः ।
॥३७८॥