________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७७॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
केनाप्यौपयिकेनेदं स्तूपमुत्थाप्यते यदि । तदा भज्येत वैशाली नाऽन्यथा वज्रिणाऽपि हि ॥३७४ ।। चिन्तयन्निति बभ्राम वैशाल्यां कूलवालकः । अपृच्छ्यत च तल्लोकैः पुरीरोधकदर्थितैः ।। ३७५ ॥ वयं भदन्त ! दान्ताः स्मः पुरीरोधेन विद्विषा । यदि वेत्सि तदाऽऽख्याहि कदोद्वेष्ये भविष्यति ? ॥३७६ ॥ सोऽवदद्वेम्यहं सम्यग्यावत् स्तूपमिहास्त्यदः । नगर्यास्तावदुद्वेष्टो न भविष्यति हे जनाः ! ।। ३७७ ॥ स्तूपेऽस्मिन् भज्यमानेऽपि भावी प्रत्यय एष वः । द्विट्सैन्यं वार्धिवेलेवाकस्मादपसरिष्यति ॥ ३७८ ।। उत्कीलिते समन्तात्तु स्तूपे स्वस्त्यस्तु वो जनाः । कुलग्ने स्थापितमिदं मा मोहमिह यात भोः ।। ३७९ ।। तं स्तूपं भक्तुमारेभे धूर्त्तधीवञ्चितो जनः । सुखप्रतार्यः प्रायेण सर्वोऽपि व्यसनार्दितः ।। ३८० ।। भक्तुमारब्धमात्रेऽपि स्तूपे मागधिकापतिः । गत्वाऽपसारयामास द्विक्रोशीमथ कूणिकम् ।। ३८१ ।। उत्पन्नप्रत्ययो लोकस्तं स्तूपं कूपभेकधीः । कूर्मन्यासशिलां यावन्निर्मूलमुदमूलयत् ।। ३८२ ।। बभञ्ज द्वादशाब्द्यन्ते वैशालीं कूणिकस्ततः । स्तूपस्यैव प्रभावोऽभूत् पुरा हि दुरतिक्रमः ।। ३८३ ।। विरराम तदा चंपावैशालीनाथयो रणः । एतस्यामवसर्पिण्यामीदृशो न कदाऽप्यभूत् ।। ३८४ ।। भाणयामास वैशालीपतिं चंपापतिस्तदा । आर्य चेटक पूज्योऽसि किं करोमि तव प्रियम् ? ||३८५ ।। चेटकोऽपि विषण्णात्मा कूणिकं प्रत्यभाणयत् । जयोत्सवोत्सुकोऽपि त्वं विलंब्य प्रविशेः पुरीम् ।।३८६ ।।
चेटकेन सह कुणिकस्य युद्धम्।
॥३७७॥
१ शम•LI