________________
त्रिषष्टि
शलाका
पुरुषचरिते ||३७६ ॥
तत्त्वामेकाकिनं मुक्त्वा प्राप्तमेतावतीं दशाम् । न गन्तुमुत्सहेते मे पदौ निगडिताविव ।। ३६१ ।। इत्युक्वा सा स्थिता तत्रोपससर्प क्षणे क्षणे । उद्वर्तयितुमंगानि प्रदातुं भेषजानि च ।। ३६२ ।। उद्वर्तनादिकं तस्य तथा मागधिका व्यधात् । यथा तं कारयामास सर्वांगस्पर्शमात्मनः ।। ३६३ ॥ उल्लाघः स शनैश्चक्रे तया शुश्रूषमाणया । चंपकेनांशुकमिव तद्भक्त्या चाध्यवास्यत ।। ३६४ ।। कटाक्षवीक्षणैस्तस्या अंगस्पर्शमृदूतिभिः । मुनेस्तस्याचलच्चित्तं स्त्रीसंगे हि कियत्तपः ।। ३६५ ।। मुनेर्मागधिकायाश्च मिथः शय्यासनादिभिः । दम्पतिव्यवहारोऽभूदतिव्यक्तो दिने दिने ।। ३६६ ।। निन्ये च मागधिकया चंपायां कूलवालकः । नारीणां किंकर इव कामान्धः किं करोति न ? ॥ ३६७ ॥ चंपेशाय शशंसे च देवायं कूलवालकः । पतीकृत्य मयाऽऽनीतः किं करोतु समादिश ।। ३६८ ॥ आदिदेश विशामीशोऽप्यादरात् कूलवालकम् । यथा भज्येत वैशाली मंक्षु भिक्षो ! तथा कुरु ॥ ३६९ ॥ प्रतिश्रुत्य नृपादेशं धीनिधिः कूलवालकः । जगाम लिंगिरूपेण वैशालीमस्खलद्गतिः ।। ३७० ।। चंपानाथोऽपि तत्कालं वैशालीमखिलैर्बलैः । रुरोध रुद्धामग्रेऽपि जयप्रत्याशयोत्सुकः ।। ३७१ ।। द्रव्याणि द्रष्टुमारेभे पुर्यां मागधिकापतिः । श्रीमुनिसुव्रतस्वामिस्तूपमेकं ददर्श च ॥ ३७२ ॥ सोऽचिन्तयच्च तं दृष्टवा प्रतिष्ठालग्नमस्य हि । बलीयस्तत्प्रभावेण निश्चितं पूर्न भज्यते ॥ ३७३ ॥ त्रोपारच्च ।
दशमं पर्व द्वादशः
सर्गः
श्रीमहावीरजिनचरितम् ।
चेटकेन सह कुणिकस्य
युद्धम् ।
॥३७६ ॥