________________
दशमं पर्व | द्वादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३७५॥
सर्गः
श्रीमहावीरजिनचरितम् ।
ततो गिरिणदीदेव्या निजं कूलं दिशाऽन्यया । प्रावर्ति यत्र तत्रापि क्षेममेव तपोजुषाम् ॥३४७ ।। कूलवालक इत्याख्या तदा तस्य मुनेरभूत् । सांप्रतं वर्ततेऽमुत्र प्रदेशे स महातपाः ।। ३४८ ॥ कृतकृत्येव सा सद्यः स्मयमानेक्षणा ययौ । कूलवालकविज्ञानात् फलितच्छद्मपादपा ।। ३४९ ।। वन्दमानाऽथ चैत्यानि तीर्थयात्राच्छलेन सा । तमुद्देशमुपेयाय यत्रर्षिः कूलवालकः ।। ३५०॥ वन्दित्वा तं मुनिवरं सा मायाश्राविकाऽवदत् । उज्जयन्तादितीर्थानि वन्दयेऽहं मुने ! त्वया ।। ३५१ ।। कायोत्सर्ग मुनिस्त्यक्त्वा धर्मलाभाशिषं ददौ । तीर्थान्यवन्दतापृच्छच्चाऽऽगतासि कुतःशुभे ? ।। ३५२ ।। साऽऽख्यन्महर्षे ! चंपाया आगां तीर्थानि वन्दितुम् । तीर्थेभ्यः परमं तीर्थमिह यूयं च वन्दिताः ।। ३५३ ॥ तदस्मदीयं पाथेयं भिक्षादोषविवर्जितम् । आदाय पारणं कृत्वा महर्षेऽनुगृहाण ! माम् ।। ३५४ ।। भक्तिभावनया तस्या मुनिरामनाः स तु । जगाम भिक्षामादातुं तत्सार्थेऽनर्थसद्मनि ।। ३५५ ।। ददिरे च स्वयं तस्मै कूटश्राविकया तया । पुरा संयोजितद्रव्या मोदका मोदमानया ।।३५६ ।। अभूत्याशितमात्रैस्तैर्मोदकैः सोऽतिसारकी । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा ॥३५७ ॥ अतिसारेण स ग्लानो महर्षिरभवत्तया । संवरीतुं क्षीणबलो यथांगान्यपि नाशकत् ।। ३५८ ॥ तं च मागधिका प्रोचे समयस्मृतवैशिका, कृतपारणकोऽपि त्वं मदनुग्रहकाम्यया ॥३५९॥ स्वामिन्मदीयपाथेयप्राशनादप्यनन्तरम् । प्राप्तोऽसि दुर्दशामेवं धिग्मां पापतरंगिणीम् ॥३६० ।।
चेटकेन सह कुणिकस्य युद्धम् ।
॥३७५॥