________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७४॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
न कर्कशां न मधुरां गुरोः शिक्षाममंस्त सः । लघुकर्मणि शिष्ये हि प्रभवन्ति गुरोर्गिरः ॥३३४ ।। विहरन्तोऽन्यदाचार्यास्ते गिरेनगरं ययुः । उज्जयन्तं चारुरुहुः सह क्षुल्लेन तेन तु ।। ३३५ ।। क्षुल्लेन देवं वन्दित्वा गुरोरुत्तरतो गिरेः । मुमुचे गंडपाषाणः पेषणाय दुरात्मना ।। ३३६ ॥ श्रुत्वा खडखडाशब्दं गुरुराकुञ्चितेक्षणः । आलुलोके तमश्मानं पतन्तं पविगोलवत् ।। ३३७ ॥ चक्रे च वितते जंघे स ग्रावाऽपि तदन्तरे । निरियायापदः प्रायः प्रभवन्ति न धीमति ।।३३८ ।। शशाप च गुरुः क्षुल्लं कुपितस्तेन कर्मणा । स्त्रीसकाशादरे पाप! व्रतभंगमवाप्स्यसि ।।३३९ ।। क्षुल्लोऽब्रवीद्गुरो! शापं करिष्यामि तवान्यथा । तत्र वत्स्याम्यरण्येऽहं यत्र द्रक्ष्यामि न स्त्रियम् ।।३४० ॥ इति सद्यो गुरुं त्यक्त्वा मर्यादामिव दुर्मतिः । निर्मानुषामरण्यानी स शार्दूल इवाविशत् ।। ३४१ ।। गिरिकूलंकषामूले स्थितः प्रतिमया सदा । स मासादर्धमासाद्वा पथिकादेरपारयत् ।।३४२ ।। एवं कुलंकषामूले मुनेस्तस्य तपस्यतः । प्रावृट् प्रादुर्बभूवाब्दवितानितनभस्तला ॥ ३४३ ॥ रसोद्रेकेण लुंपन्त्य उभे कूले कुले इव । नद्य उन्मार्गगामिन्यो बभूवुः कुलटा इव ।। ३४४ ॥ क्षुल्लाधिष्ठितकूलायामुत्पूरायां सरित्यथ । दध्यौ तद्देवता भक्ता शासने श्रीमदर्हताम् ।। ३४५ ॥ कूलस्थितो मुनिरयं कूलद्रुम इवाधुना । नेष्यते वारिपूरेण यधुपेक्षां करोम्यहम् ।।३४६ ।। १ गिरिन ।
AASHRSHAHARASHRSHABHASHRSHASE
चेटकेन सह कुणिकस्य युद्धम् ।
॥३७४॥