SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३७३॥ | दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । तच्छुत्वा मंत्रिणः प्रोचुस्तवैव पुरि विद्यते । वेश्या मागधिका देव ! न विद्मः कूलवालकम् ।। ३२० ।। तदैव मुक्त्वा सैन्याधं वैशालीरोधहेतवे । सैन्यार्धेन ययौ चंपा चंपापतिरिलापतिः ।।३२१ ॥ पण्यांगना मागधिकां मगधाधिपनन्दनः । आह्वास्त गतमात्रोऽपि त्वरितं वरमंत्रिवत् ।। ३२२ ।। आदिदेश च भद्रे ! त्वं धीमती त्वं कलावती । त्वया चानेकपुंसां धीराजन्माप्युपजीविता ॥३२३ ।। सफलीकुरु मत्कार्ये तद्वैशिककलां निजाम् । रमयित्वा पतित्वेन श्रमणं कूलवालकम् ।। ३२४ ॥ करोम्येवमिति च सा प्रपेदाना मनस्विनी । चंपानाथेन सच्चके वस्त्रालंकरणादिना ।। ३२५ ।। विसृष्य च गृहं गत्वा विमृश्य च धियां निधिः । तदैव मूर्त्ता मायेव सा मायाश्राविकाऽभवत् ।। ३२६ ॥ सा गर्भश्राविकाप्राया गृहिधर्म यथाविधि । अपि द्वादशधा लोके दर्शयामास सत्यवत् ॥ ३२७ ।। चैत्यपूजादिनिरतां धर्मश्रवणतत्पराम् । ऋज्वाशयाश्च विविदुराचार्याः श्राविकेति ताम् ।। ३२८ ।। सान्यदाऽपृच्छदाचार्यान् कः साधुः कूलवालकः । तद्भावमविदन्तश्च कथयन्ति स्म तेऽप्यदः ॥ ३२९ ॥ धर्मज्ञे! पंचधाऽऽचारनिरतो मुनिपुंगवः । एकोऽस्ति तस्य च क्षुल्ल एकः कपिरिवास्थिरः ।। ३३० ॥ सामाचारीपरिभ्रथे वारणास्मारणादिभिः । नोद्यमानो याति रोषं स तु क्षुल्लोऽतिदुर्नयः ।। ३३१ ॥ गुरुस्तु तस्य क्षुल्लस्य दुःश्रवामपि सादरः । आचारशिक्षा प्रददौ यदुक्तमिदमागमे ।।३३२ ॥ “परो रुष्यतु वा मा वा विषवत्प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ॥३३३ ।। RSSIRSARSHASRHARS चेटकेन सह कुणिकस्य युद्धम् । ॥३७३॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy