________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७२॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
कुमारौ दध्यतुर्धिग्धिगावाभ्यां किमनुष्ठितम् । पशुत्वमावयोर्व्यक्तं न तु सेचनकः पशुः ॥३०६ ।। आर्यपादा यस्य कृते क्षिप्ता दुर्व्यसने चिरम् । तं स्वयं निधनं नीत्वा जीवावोऽद्यापि दुर्धियौ ।।३०७ ।। आर्यसैन्यस्य महतो नाशप्रतिभुवाविव । अकृष्वहि वृथा नाशं नीतो बन्धुरबन्धुताम् ।। ३०८ ।। तन्नाऽद्य जीवितुं युक्तं जीवावश्चेदतः परम् । शिष्यीभूयार्हतो वीरस्वामिनः खलु नान्यथा ॥३०९ ।। तदा शासनदेव्या तौ भावश्रमणतां गतौ । नीतौ श्रीवीरपादान्ते परिवव्रजतुर्दुतम् ।।३१० ॥ तदा च प्रव्रजितयोरपि हल्लविहल्लयोः । अशोकचन्द्रो वैशालीमादातुमशकन्न हि ॥३११ ॥ एवं सति च चपेशः प्रतिज्ञामकृतेदृशीम् । प्रतिज्ञया पौरुष हि दोष्मतां भूशमेधते ॥३१२ ।। न खनामि पुरीमेतां खरयुक्तहलेन चेत् । तदाऽहं भृगुपातेनाग्निप्रवेशेन वा म्रिये ॥३१३ ।। कृतसन्धोऽपि वैशाली पुरी भक्तुमनीश्वरः । खेदमासादयामास कूणिकः क्रमयोगतः ॥३१४ ।। तदा चाशोकचन्द्रस्य खिन्नस्य गगनस्थिता । देव्याख्यदीदृशं रुष्टा श्रमणे कूलवालके ।। ३१५ ।। “गनियं चे मागधियं शमने कुलवालके । लभिज्ज कूणि एकाए तो वेशालि गहिस्सिदि" ॥३१६ ।। आकाशदेवतावाचमिमामाकर्ण्य कूणिकः । बभाण सद्यः सञ्जातजयप्रत्याशयोच्छ्वसन् ॥ ३१७ ॥ बालकानां हि भाषा या भाषा या योषितामपि । औत्पातिकी च भाषा या सा वै भवति नाऽन्यथा ।।३१८॥ तत्क्वास्ति श्रमणः कूलवालकः प्राप्स्यते कथम् ? । पण्यांगना मागधिकाभिधाना विद्यते क्व वा ? ॥३१९॥
चेटकेन सह कुणिकस्य युद्धम् ।
॥३७२॥