________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७१॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोमंत्रिमंडली स्माऽऽह कूणिकः ।। २९३ ॥ आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः ।।२९४ ।। मंत्रिणोऽप्यूचिरे तौ हि जेतुं शक्यौ न केनचित् । अधिरुढौ हि यावत्तं हस्तिनं नरहस्तिनौ ।। २९५ ।। तस्मात्तस्यैव करिणो वधाय प्रयतामहे । खादिरांगारसंपूर्णा कार्यतां पथि खातिका ।। २९६ ।। छादयित्वा च वारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति ।। २९७ ॥ चपेशोऽकारयदथ खादिरांगारपूरिताम् । खातिकामुपरिच्छन्नां तदागमनवमनि ॥ २९८ ।। अथ हल्लविहल्लावप्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरुढौ जितकाशिनौ ।। २९९ ।। अंगारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभंगेन विज्ञाय तस्थौ यतममानयन् ।। ३०० ।। ततो हल्लविहल्लाभ्यामिति निर्भिर्त्सतः करी । पशुरस्यकृतज्ञोऽसिकातरो यदभू रणात् ।। ३०१ ।। विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः । अस्मिन्दुर्व्यसने क्षिप्तस्त्वत्कृते ह्यार्यचेटकः ।। ३०२ ॥ वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपक्षसे ।। ३०३ ।। इति निर्भर्सितो हस्ती कुमारौ निजपृष्ठतः । वेगादुत्तारयामास भक्तंमन्यो बलादपि ।। ३०४ ।। स्वयं तु तस्मिन्नंगारगर्ते ज्ञम्पां ददौ करी । सद्यो विपद्य चाद्यायामुत्पेदे नरकावनौ ॥३०५ ।। १ जितम।
चेटकेन सह कुणिकस्य
युद्धम् ।
॥३७१॥