________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७० ॥
हते च वरुणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ।। २७९ ।। गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा ।। २८० ॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत ।। २८१ ।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखंडमिवाक्षिपत् ॥ २८२ ॥ कुणिकं दुर्जयं ज्ञात्वा चेटकोऽथात्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ॥ २८३ ॥ इतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्द्रस्तु पृष्ठे सन्नाहमायसम् ।। २८४ ।। चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ॥ २८५ ॥ अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत ।। २८६ ।। द्वितीयं नाऽमुचद्बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ॥ २८७ ॥ तथैव मोघबाणोऽभूद् द्वितीयेऽह्न्यपि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः ॥ २८८ ॥ लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च ।। २८९ ।। नंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् ।। २९० ।। तदा सेचनकारुढौ चंपेशस्याखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः ।। २९१ ।। न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चंपेशशिबिरे सौप्तिकागतः ।। २९२ ॥
दशमं पर्व
द्वादश:
सर्ग:
श्रीमहावीर
जिनचरितम् ।
चेटकेन सह कुणिकस्य
युद्धम् ।
।।३७० ॥