________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६९।।
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
गाढप्रहारविधुरो निःसृत्य वरुणो रणात् । तृणसंस्तरमासूत्र्य निषधेदमचिन्तयत् ।। २६५ ॥ सर्वात्मना शरीरेण स्वामिकार्यमनुष्ठितम् । इदानीमन्तकालो मे स्वार्थस्यावसरः खलु ॥२६६ ॥ अर्हद्भट्टारकाः सर्वे सिद्धाः सर्वे च साधवः । केवल्युपज्ञो धर्मश्च भूयासुः शरणं मम ।। २६७ ॥ क्षमयामि सर्वाञ्जीवान् सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ।।२६८ ।। मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकारमकार्ष यं तमपि व्युत्सृजाम्यहम् ॥ २६९ ॥ कानि कानि न मूढोऽहं पापस्थानान्यसेविषि । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति ।। २७० ।। देवत्वनृत्वतिर्यक्त्वनारकत्वेषु यन्मया । कृतं दुष्कर्म तद्गहें श्रीवीरोऽर्हन् गतिर्मम ।। २७१ ।। एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमथ दध्यौ च नमस्कारं समाहितः ॥ २७२ ।। तदा च वरुणस्यैकः सुहन्मिथ्यादृगाहवात् । बहिर्भूत्वोपवरुणमागत्यैवमवोचत ।। २७३ ॥ वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्वानं प्रपन्नोऽस्म्यविदन्नपि ॥२७४ ।। नमस्कारपरावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वरुणो ययौ ।। २७५ ।। तद्विमानेऽरुणाभाख्ये चतुःपल्योपमप्रमम् । पूरयित्वायुरुत्पद्य विदेहेषु स सेत्स्यति ।। २७६ ।। अज्ञानसेवितेनापि वरुणस्य तु वर्त्मना । विपद्य तत्सुहृद् भूयो मनुष्यः सुकुलेऽभवत् ।। २७७ ॥ विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति ।। २७८ ॥
SARAHARIHAR
चेटकेन सह कुणिकस्य युद्धम् ।
|३६९॥
A