________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६८॥
चमरेन्द्रोऽप्यथ महाशिलाकंटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत ।। २५२ ।। आद्ये शिलासन्निभः स्यात् पतितः कर्करोऽपि हि कंटकोऽपि च जायेत महाशस्त्राधिकः खलु ।।२५३ ।। द्वितीये रथमुशले भ्राम्यतो भ्रमकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् ।।२५४ ॥ सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । ततस्त्रयो युयुधिरे सह चेटकसेनया ।।२५५ ।। पौत्रोऽथ नागरथिनो द्वादशव्रतपालकः । सम्यग्दृष्टिः षष्ठभोजी सदा भवविरक्तधीः ।। २५६ ।। राजाभियोगतः षष्ठभक्तान्तेऽपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः ।। २५७ ॥ संग्रामे रथमुशले दुःसहे तादृशेऽपि हि । प्राविशद्वरुणो नाम सेनानीः सत्यसंगरः ।।२५८।। ।। त्रिभिर्विशकम्।। स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनाऽसह्यरंहसा ।। २५९ ।। तौ संमुखीभूतरथौ डुढौकाते रणेच्छया । वैरायमाणौ भूमिष्ठभानुस्वर्भानुभीषणौ ।। २६० ।। चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युच्चैर्व्याजहार पुरःस्थितम् ।। २६१ ।। वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ॥२६२ ।। साधु साधु महासत्त्वेत्युक्त्वा चपेशसैन्यपः । मुमोच बाणं वरुणो विविधे तेन मर्मणि ।। २६३ ।। ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एकेनैव प्रहारेण निनाय यमसद्मनि ।। २६४ ।। १ भ्रामकं ।
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
SASRASHIFAIRS
चेटकेन सह कुणिकस्य युद्धम् ।
||३६८॥
ASRASHASALE