________________
दशमं पर्व द्वादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३६७॥
सर्गः
श्रीमहावीरजिनचरितम् ।
युद्धं विसृज्य चपेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ।। २३८ ।। चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनात्यगुर्निशाम् ।।२३९ ॥ चंपानाथेनाभिषिक्तं सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः ।। २४० ।। अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् ।। २४१ ।। भातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् ।। २४२ ।। देवतायाः प्रसादेन जेतैकेनापि पत्रिणा । न ह्यायचेटको जय्यो मत्यैः कोटिमितैरपि ।। २४३ ।। प्रभावं चेटकस्याऽमुं मया हा धिगजानता । मयैव निधनं नीता देवाभा भ्रातरो दश ॥ २४४ ।। बभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसर्तुं च दृष्टभ्रातृवधस्य मे ।। २४५ ।। तद्देवतां समाराध्य तत्प्रभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते ।। २४६ ॥ उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः ।। २४७ ।। पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपेयतुः ।। २४८ ॥ ऊचाते तौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? । सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तन्निहन्यताम् ।। २४९ ।। शक्रो भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित् ।।२५०॥ तथापि देहरक्षां ते करिष्यामि महीपते ! । यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ॥२५१ ।।
चेटकेन सह कुणिकस्य युद्धम् ।
||३६७॥