________________
दशमं पर्व द्वादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३६६॥
सर्गः
श्रीमहावीरजिनचरितम् ।
कीर्तिस्तंभैरिवोत्तब्धैः खटीधवलितैः खरैः । संशप्तकाश्च संचेरुयोरपि हि सैन्ययोः ।। २२५ ।। कूणिकस्य बले कालः कुमारो बलनायकः । आदावपि प्रववृते योद्धं चेटकसेनया ।। २२६ ।। युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पत्तिना च बलद्वये ।। २२७ ।। स्तंबेरमैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः ।। २२८ ।। रथैर्भग्नैर्हतैर्वीरैः समरे रुधिराऽऽपगाः । सान्तरीया इव साऽऽम्भोमानुषा इव चाऽऽबभुः ।। २२९ ।। स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिव प्रादुर्भूतमदृश्यत ।।२३० ॥ असिच्छिन्नैरुच्छलद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरवतंसकुतूहलम् ।। २३१ ।। स्वान् रुंडानपि युद्धायाऽऽदिशन्त इव हुंकृतैः । पेतुर्भटानां मूर्धानः खङ्गधाराभिराहताः ।। २३२ ।। इत्थं च सागरव्यूह कालः पोत इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् ।। २३३ ॥ कालं कालमिवाऽकालेऽप्यायातं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैष वज्रमिवाऽस्खलि ॥२३४ ।। अभ्यापतन्तं तदिमं रणसागरमन्दरम् । क्षणादपि निगृह्णामि दैवतेन पतत्रिणा ।। २३५ ॥ इति दिव्येषुणा वैरिप्राणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचताम् ।। २३६ ।। तदा चास्तमुपेयाय भास्वान् कालकुमारवत् । शुचेव चपेशबलं तमसा जग्रसे जगत् ।। २३७ ॥ १ रथोतब्धैः । रिवोत्युश्चैः ।
चेटकेन सह कुणिकस्य युद्धम् ।
||३६६॥