________________
त्रिषष्टिशलाका
दशमं पर्व द्वादशः सर्गः श्रीमहावीर
पुरुषचरिते ॥३६५॥
जिन
चरितम् ।
दत्तोऽप्यागत्य चंपायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुलः ।। २१२ ।। कूणिकोऽपि हि तत्कालं जयभंभामवीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः ।। २१३ ।। सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सद्यः सर्वाभिसारेण सज्जीभूयावतस्थिरे ।। २१४ ।। कालादयः कुमाराश्च दशापि हि महाबलाः । पुरो बभूवुः संनह्य सर्वसन्नहनेन ते ।। २१५ ।। सहस्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । तावन्तश्च रथाः कोट्यस्तिस्रोऽपि च पदातयः ।। २१६ ।। तेषां दशानां प्रत्येक कुमाराणामिदं बलम् । एतावत्कूणिकस्यापि प्रभुत्वं त्वतिरिच्यते ।।२१७।। ।। युग्मम्।। सैन्येनैतावता गच्छंश्चपेशश्चेटकं प्रति । तिरयामास धरणिं तरणिं च रजोभरैः ।। २१८ ।। चेटकोऽप्यमितैः सैन्यैः कूणिकायाभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः ।। २१९ ।। द्विपास्त्रीणि सहस्राणि तावन्तश्च तुरंगमाः । तावन्तश्च रथास्तिस्रः कोटयश्च पदातयः ।। २२० ।। अष्टादशानां प्रत्येकं राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूबलम् ।। २२१ ।। स्वदेशसीम्नि गत्वाऽस्थाच्चेटकः सेनया तया । दुर्भेदं सागरव्यूह रचयामास चोच्चकैः ।। २२२ ॥ चंपाधिपोऽपि तत्रागाच्चम्वा प्रागुक्तसंख्यया । चक्रे च गरुडव्यूहमभेद्यं परसेनया ।।२२३ ।। रणतूराणि घोराणि सैन्ययोरुभयोरपि । रोदःकुक्षिभरिध्वानान्यताड्यन्त सहस्रशः ।। २२४ ।। १ सेनान्योऽन ।
चेटकेन सह कुणिकस्य युद्धम् ।
॥३६५॥