________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६४॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
न शोभनोऽस्याभिप्रायः किमनेन प्रयोजनम् । प्रयावोऽन्यत्र कुत्रापि श्रियः सर्वत्र दोष्मताम् ।। १९८ ।। इति निश्चित्य तौ सान्तःपुरौ सेचनकद्विपम् । हारादीन्यप्युपादाय वैशाल्यां निशि जग्मतुः ।। १९९ ।। मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् ।। २०० ॥ वैशाल्यां च गतौ ज्ञात्वा तौ प्रतारितधूर्तवत् । हस्तविन्यस्तचिबुकश्चिन्तयामास कूणिकः ।। २०१ ॥ न मे हस्त्यादिरत्नानि न च तौ भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधानतया खलु ।। २०२ ।। भवतु व्यसने प्राप्तेऽमुष्मिस्तौ नाऽऽनयामि चेत् । पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् ।। २०३ ।। अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रैषीद् भ्रात्रोर्मार्गणाय रत्नान्यादाय जग्मुषोः ।। २०४ ।। दूतोऽपि पुर्या वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चेटकं स्थाने चाऽऽसित्वोचे ससौष्ठवः ।। २०५ ।। इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारौ हल्लविहल्लौ कूणिकस्य समर्पय ।। २०६ ।। अनर्पयन्निमौ राज्यभ्रंशमासादयिष्यसि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि ।।२०७ ।। चेटकोऽवोचदन्योऽपि नार्येत शरणागतः । दौहित्रौ किं पुनरिमौ विश्वस्तौ पुत्रवत्प्रियौ ।। २०८ ।। दूतोऽब्रवीच्छरण्यस्त्वं न ह्यर्पयसि चेदिमौ । तद्रत्नान्यनयोर्हत्वा राजन्मत्स्वामिनेऽर्पय ।। २०९ ॥ चेटकः स्माह धर्मोऽयं समानो राजरंकयोः । अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् ।। २१० ॥ न प्रसह्य न वा सानाऽनयोर्गृह्णामि किंचन । धर्मपात्रं हि दौहित्रौ दानार्हो मे विशेषतः ॥२११ ॥
चेटकेन सह कुणिकस्य युद्धम् ।
||३६४॥