________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६३।।
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
अहो बहुलशाखत्वमहो पत्रलताऽद्भुता । अहो कुसुमसंपत्तिरहो कुसुमसौरभम् ।। १८४ ।। अहो छायैकातपत्र्यमातपत्राभिभावुकम् । अहो विश्रामयोग्यत्वमहो सर्वं किमप्यदः ॥ १८५ ।। निसर्गरमणीयोऽयं यथा श्रीधाम चंपकः । तथाऽत्र नगरमपि भविष्यति न संशयः ।। १८६ ।। चंपकेन श्रियः सत्यंकारेणैवोपशोभितम् । स्थानं पुरीनिवेशार्ह ते तथाऽऽख्यन्महीभुजे ॥ १८७ ।। चंपकस्याभिधानेन चंपेति नगरी नृपः । वेगादकारयत् सिद्धिर्वचसा हि महीभुजाम् ॥ १८८ ।। ततश्च पुर्यां चंपायां गत्वा सबलवाहनः । महीमिमां श्रेणिकसूर्भ्रातृभिः सहितोऽन्वशात् ।। १८९ ।। अथ सेचनकारुढौ दिव्यकुंडलमंडितौ । दिव्याहारांशुकधरौ भूगतौ स्वर्गिणाविव ।। १९० ।। अत्यद्भुतश्रियौ हल्लविहल्लौ निजदेवरौ । दृष्ट्वा पद्मावती दध्यौ स्वस्य स्त्रीत्वस्य सन्निभम् ।। १९१ ।। हारकुंडलवासोभिर्दिव्यैः सेचनकेन च । विना हि मन्यते राज्यं नेत्रहीनमिवाऽऽननम् ।। १९२ ।। ततो हल्लविहल्लाभ्यां तान्याहतु कृताग्रहा । बभाण कूणिकं राज्ञी कूणिकोऽप्येवमभ्यधात् ।। १९३ ।। पितृदत्तं वस्त्वनयो हर्तुं युज्यते मम । विशेषेण प्रसादार्हाविमौ ताते दिवं गते ।। १९४ ॥ तस्याश्चात्याग्रहाद्राजा मेने हारयाचनम् । स्त्रीग्रहः खलु मत्कोटग्रहादपि विशिष्यते ।। १९५ ।। अन्यस्मिश्च दिने हल्लविहल्लौ पृथिवीपतिः । ययाचे त्यक्तसौभ्रात्रस्तद्धारादिचतुष्टयम् ।। १९६ ॥ प्रमाणमादेश इति प्रतिपद्य गृहं गतौ । आ(अ)मंत्रयेतां तावित्थं बुद्धिमन्तावुभावपि ।। १९७ ॥
RSSHRIRAHASRAHASRASHASHAN
चेटकेन सह कुणिकस्य युद्धम् ।
॥३६३॥