________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६२॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीर
जिनचरितम् ।
आस्तां प्रसादवचनं तिरस्कारवचोऽपि हि । त्वदीयं नाहमश्रौषमभूद् दुर्दैवमन्तरा ।। १७१ ॥ 'मृगुपातेन शस्त्रेण वह्निन्ग पयसाऽपि वा । तदात्मानं निगृह्णामि युक्तं मत्कर्मणो ह्यदः ।। १७२ ।। इति शोकामयग्रस्तो मुमूर्षुरपि कूणिकः । मंत्रिभिर्बोधितोऽकार्षीच्छ्रेणिकस्यांगसंस्कृतिम् ।। १७३ ॥ शोकेन भूयसा राजयक्ष्मणेव दिने दिने । क्षीयमाणं नृपं प्रेक्ष्य मंत्रिणोऽचिन्तयन्नदः ॥ १७४ ।। नूनं विपत्स्यते शोकाद्राजा राज्यं च नंक्ष्यति । पितृभक्त्यपदेशेन तद्व्यासंगोऽस्य सूत्र्यताम् ।। १७५ ॥ इति जीर्णे ताम्रपत्रेऽक्षराणि लिलिखुः स्वयम् । पिंडादि दत्तं पुत्रेण मृतोऽपि लभते पिता ।। १७६ ॥ अवाचयंश्च राज्ञोऽग्रे राजाऽपि हि पितुः स्वयम् । तद्वञ्चितोऽदात् पिण्डादि पिण्डदानं तदाद्यभूत् ।। १७७ ।। भुंक्ते पिता विपन्नोऽपि मद्दत्तमिति मूढधीः । राजा शोकं शनैरौज्झज्ज्वरीव रसविक्रियाम् ।। १७८ ॥ पितुः शय्याऽऽसनादीनि पश्यन्तं तु पुनः पुनः । सिंहावलोकनन्यायाच्छोकः कूणिकमभ्यगात् ।। १७९ ।। गडूचीस्तंबवच्छोके प्रोन्मीलति मुहुर्मुहुः । राजा राजगृहे स्थातुमभूद् भृशमनीश्वरः ।। १८० ।। करिष्ये पुरमन्यत्रेत्यादिदेश विशांपतिः । शस्तभूशोधनायाथ वास्तुविद्याविशारदान् ।। १८१ ।। ते च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् । प्रदेशेऽद्राक्षुरेकत्र महान्तं चंपकद्रुमम् ।। १८२ ।। ऊचुश्च नायमुद्याने दृश्यते नेह सारणिः । नायमावालवलयी तथाऽप्यस्याभुता लिपिः ।। १८३ ॥
कुणिकस्य शोकः ।
॥३६२॥
१ पात्रे ।