________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६१॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
कूणिकोऽप्यब्रवीन्मह्यं तातः किं गुडमोदकान् । प्रैषीद्धल्लविहल्लाभ्यां पुनः किं खंडमोदकान् ।। १५८ ॥ चेलणाऽऽख्यपितृद्वेषीत्यनिष्टस्त्वं ममाऽभवः । मयैव दापितास्तुभ्यं तन्मूढ ! गुडमोदकाः ।! १५९ ।। कूणिकः स्माह धिग्धिङ्मामविमृश्य विधायिनम् । राज्यं न्यासार्पितमिवार्पयिष्यामि पुनः पितुः ॥१६०॥ इत्यर्धभुक्तेऽप्याचम्य धात्र्याः पुत्रं समर्प्य च । उदस्थात्कूणिकस्तातसमीपे गन्तुमुत्सुकः ॥ १६१ ॥ पितृपादेषु निगडान् भक्ष्यामीति विचन्तयन् । लोहदंडं गृहीत्वा सोऽभिश्रेणिकमधावत ॥ १६२ ।। उपश्रेणिकमादिष्टा यामिकाः पूर्वसंस्तुताः । दृष्ट्वा कूणिकमायान्तमिति व्याजहूराकुलाः ।। १६३ ।। साक्षाइंडधर इव लोहदंडधरः पुरः । द्रुतमायाति ते सूनुर्न विद्मः किं करिष्यति ? ।। १६४ ।। श्रेणिकश्चिन्तयामास जिघांसुर्नूनमेष माम् । अन्यदाऽगात् कशाहस्तो दंडहस्तोऽधुनैति तु ।। १६५ ।। न वेद्मि मां कुमारेण मारयिष्यति केनचित् । तस्मादनागतेऽप्यस्मिन्मरणं शरणं मम ।। १६६ ।। इति तालुपुटविषं जिह्वाग्रे श्रेणिको ददौ । प्रस्थानस्था इवाग्रेऽपि तत्प्राणाश्च द्रुतं ययुः ।। १६७ ।। आगाच्च कुणिको यावत् परासुं तावदग्रतः । ददर्श पितरं वक्ष आघ्नानः पूच्चकार च ॥१६८ ।। विललाप च हा! तातपादाः ! कर्मभिरीदृशैः । अद्वैतीयीक एवैष पापोऽहमभवं भुवि ।। १६९ ।। क्षमयिष्याम्यहं तातपादानिति मनोरथः । यन्मे नाऽपूरि तत्पापतमोऽहमधुना पुनः ॥ १७० ॥
श्रेणिकस्य मृत्युः ।
*SHAHARASHRSSHRSHASHRS
॥३६१॥
१°दायं ।