________________
त्रिषष्टिशलाका
पुरुषचरिते
॥३६० ॥
अर्धभुक्ते कूणिके च मूत्रयामास सोऽर्भकः । पपात सर्पिधरिव मूत्रधारा च भोजने ।। १४५ । सूनो वेगभंगो भूदिति श्रेणिकसूर्नृपः । न जानु चालयामास पुत्रवात्सल्यमीदृशम् ।। १४६ ।। मूत्र प्लावितमन्नं च स्वयमुत्सार्य पाणिना । तथैव बुभुजे पुत्रप्रेम्णैतदपि शर्मणे ।। १४७ ।। पप्रच्छ चेलणां तत्रोपविष्टामथ कूणिकः । मातरेवं सुतः प्रेयानभूत्कस्यचिदस्ति वा ।। १४८ ।। चेलणाऽवोचदाः पाप ! नृखेट ! कुलपांसन ! । न जानासि यथाऽभूस्त्वं पितुरत्यन्तवल्लभः ।। १४९ ।। दुर्दोहन ज्ञातोऽसि पितुर्वैरी तदा मया । स्त्रीणामापन्नसत्त्वानां यथागर्भं हि दोहदाः ।। १५० ॥ गर्भस्थितमपि ज्ञात्वा त्वामरे पितृवैरिणम् । गर्भशातनमारंभि मया पतिशिवेच्छया ।। १५१ ।। तथापि न विलीनोऽसि तैस्तैः शादौषधैरपि । किं तु प्रत्युत पुष्टोऽसि सर्वं पथ्यं बलीयसाम् ।। १५२ ।। तव पित्रा च मे तादृगप्यपूरि मनोरथः । कदा द्रक्ष्याम्यहं पुत्रवक्त्रमित्याशया भृशम् ।। १५३ ।। पितुर्वैरीति निश्चित्य त्वं जातोऽपि मयोज्झितः । आनीतोऽसि पुनः पित्रा यत्नात् स्वमिव जीवितम् ॥ १५४ ।। तदा कुक्कुटिकापिच्छविद्धैका च तवांगुलिः । कृमिपूयाकुलाऽत्यंतमभूदरतिदायिनी ।। १५५ । त्वत्पिताऽधान्मुखे क्षिप्तां तादृशीमपि तेंऽगुलिम् । तावदेव सुखं तेऽभूद्यावद्वक्त्रांतरंगुली ।। १५६ ।। एवं येनासि पित्रा त्वं रे दुर्ललित ! लालितः । कृते प्रतिकृतं तस्याऽकारि काराप्रवेशनम् ।। १५७ ।।
१ याद् ।
दशमं पर्व
द्वादश:
सर्गः
श्रीमहावीर
जिनचरितम् ।
कुणिकेन
कृतः श्रेणिकस्य कारागृह
रोधः ।
।।३६० ॥