________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५९॥
| दशमं पर्व द्वादशः भर्गः श्रीमहावीर
जिन
चरितम् ।
वर्धापिकास्तदाऽऽयाताः कुणिको दासचेटिकाः । वस्त्राभरणसंछन्नाश्चक्रे कल्पलतोपमाः ॥ १३२ ।। स्वयं चान्तःपुरे गत्वा पाणिभ्यां पुत्रमाददे । अभात्तत्पाणिपद्मस्थः स पोतो हंसपोतवत् ।। १३३ ।। कूणिकस्तं सुतं पश्यन्नयनाम्भोजभास्करम् । उन्मुद्रपरमानन्दः श्लोकमेवं तदाऽपठत् ।। १३४ ।। अंगादंगात्संभवसि हृदयादभिजायसे । आत्मैव पुत्रनामाऽसि तज्जीव शरदां शतम् ।। १३५ ।। भूयो भूयः पठन्नेवं विशश्राम न कूणिकः । तच्छ्लोकच्छद्मना हर्ष हृद्यमान्तं वमन्निव ।।१३६ ।। कुमारभृत्यां दक्षाभिवृद्धस्त्रीभिरथाकः । अमोच्यरिष्टशय्यायामादाय नृपतेः करात् ।। १३७ ।। चक्रे च नृपतिः सूनोर्जातकर्ममहोत्सवम् । याचकेभ्यो द्विजादिभ्यो ददद्दानं यथारुचि ॥ १३८ ॥ उदायीति ददौ नाम तस्य सूनोश्च कूणिकः । उत्सवेनातिमहता सुदिनीकुर्वता दिनम् ।। १३९ ॥ अथोदायिकुमारोऽपि स्वर्णच्छायो दिने दिने । वृद्धिं जगामोपवने शाखीवाऽऽरक्षकैर्वृतः ।। १४० ।। तेन कट्यधिरुढेन कुमारेण निरन्तरम् । दधौ सशालभञ्जीकस्तम्भशोभां महीपतिः ।। १४१ ।। उल्लापयन् कुमारं तं लल्लमन्मनया गिरा । राजाऽपि वक्तुमज्ञस्य शिशोः श्रियमशिश्रियत् ।। १४२ ।। आसने शयने याने भोजनेऽपि तमर्भकम् । न मुमोच कराद्राजा मंगल्यामिव मुद्रिकाम् ।। १४३ ।। आसाञ्चक्रेऽन्यदा भोक्तुं राजा श्रेणिकनन्दनः । वामोरुमस्तके न्यस्योदायिनं पुत्रवत्सलः ।। १४४ ।। १ जातोऽसि ।
कुणिकेन कृतः श्रेणिकस्य कारागृहरोधः ।
|३५९॥