________________
त्रिषष्टिशलाकापुरुषचरित ॥३५८।।
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
कृत्वैकादशधा राज्यं भ्रातरो भुंज्महे वयम् । पिता तु बद्धस्तदनु जीवत्वब्दशतान्यपि ।। ११८ ।। इति ते दर्धियः सर्वे विश्वस्तं पितरं निजम् । बबन्धुर्दरपत्यं हि गृहजातो विषद्रुमः ॥ ११९ ।। शुकवत्पञ्जरेऽप्सीत् कूणिकः श्रेणिकं ततः । विशेषोऽयं पुनर्भक्तपाने अपि ददौ न हि ॥ १२० ।। पूर्वाह्ने चापराहे च कूणिकः पूर्ववैरतः । पितुः कशाघातशतं पापोऽदादनुवासरम् ।। १२१ ॥ अधिसेहे श्रेणिकस्तां दुर्दशां दैवढौकिताम् । दन्तावलः समर्थोऽपि वारीबद्धः करोतु किम् ।। १२२ ॥ निकषा श्रेणिकं गन्तुं कूणिकोऽदान्न कस्यचित् । केवलं मातृदाक्षिण्याच्चेलणां न ह्यवारयत् ।। १२३ ।। चेलणाऽपि प्रतिदिनं सुरया शतधौतया । सद्यःस्नातेवाऽऽर्द्रकेशीभूयोपश्रेणिकं ययौ ।। १२४ ।। कुल्माषपिण्डिकां चैकां केशान्तः पुष्पदामवत् । प्रक्षिप्य चेलणाऽनैषीत् पतिभक्ता तदन्तिके ।। १२५ ।। पत्ये कुल्माषपिण्डी तां प्रच्छन्ना चेलणा ददौ । प्राप्य तामपि दुःप्रापां स मेने दिव्यभोज्यवत् ।। १२६ ।। चकार श्रेणिकः प्राणयात्रां पिंडिकया तया । बुभुक्षालक्षणो रोगो विनाऽन्नं खलु मृत्यवे ।। १२७ ॥ शतधौतसुराबिन्दून् पततः पिबति स्म तान् । चातको मेघमुक्ताम्बुबिन्दूनिव पिपासितः ।। १२८ ।। श्रेणिकोऽपि सुराबिन्दून् पततः पिबति स्म तान् । चातको मेघमुक्ताम्बुबिन्दूनिव पिपासितः ।। १२९।। बिन्दुमात्रपीतयाऽपि श्रेणिकः सुरया तया । न विवेद कशाघातांस्तृषया नाप्यपीड्यत ॥ १३० ।। इत्थं च श्रेणिकं बद्ध्वा कुर्वतो राज्यमुत्कटम् । कूणिकस्य पद्मावत्या पल्यां सूनुरजायत ।। १३१ ॥
कुणिकेन कृतः श्रेणिकस्य कारागृहरोधः ।
।।३५८॥