________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५७॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीर
जिन
चरितम् ।
परिव्रजन्त्या त्वभयं नन्दया कुंडलद्वयम् । क्षौमद्वयं च तद्दिव्यं दत्तं हल्लविहल्लयोः ॥ १०५ ।। भव्यानां प्रतिबोधाय ततश्च भगवानपि । सुरासुरैः सेव्यमानो विजहार वसुन्धराम् ।। १०६ ॥ विविधाभिग्रहपूर्व पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः ।। १०७ ।। तदा श्रीवीरपादाब्जमूले प्रव्रजितेऽभये । इति संचिन्तयामास शुद्धधीर्मगधाधिपः ॥ १०८ ।। अभयो हि कुमारेषु समस्तगुणभूरभूत् । व्रतमादाय सुकृती स तु स्वार्थमसाधयत् ।। १०९ ।। कुमारे कुत्रचिद्दीष्मत्यायुष्मति वपुष्मति । राज्यमारोपयिष्यामि क्रमो ह्येष महीभुजाम् ।। ११० ॥ सगुणो निर्गुणो वापि पुत्रोऽर्हः पितृसंपदाम् । सगुणः स्याद्यदि तदा पुण्यं हि पितुरुज्ज्वलम् ।। १११ ।। विनाऽभयकुमारेण मनोविश्रामधाम मे । कूणिको गुणवानेष राज्यमर्हति नापरः ।। ११२ ॥ निश्चित्य कूणिकं राज्ये सोऽदाखल्लविहल्लयोः । हारमष्टादशचक्रं गजं सेचनकं च तम् ।। ११३ ।। अत्रान्तरे कुमारोऽपि मंत्रयामास कूणिकः । कालादिभिः स्वसदृशैर्दशभिर्धातृभिः सह ।। ११४ ।। जरन्नपि पिताऽस्माकं राज्यस्य न हि तृप्यति । पुत्रे हि कवचहरे राज्ञोऽधिकुरुते व्रतम्।। ११५ ।। वरं वरीयानभयः श्रियमौज्झधुवाऽपि यः । न तु तातो विषयान्धः स्वां जरां यो न पश्यति ॥ ११६ ।। तदद्य पितरं बद्ध्वा राज्यं स्वसमयोचितम् । गृह्णीमो नापवादोऽत्र विवेकविकलो हि सः ॥११७ ॥
SHARAHAS AHARASHARASHTRA
कुणिकेन कृतः श्रेणिकस्य कारागृह
रोधः ।
||३५७॥