________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५६॥
| दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
उपस्वभवनं क्रीडाभवने संनिवेश्य ताम् । कुमारपालो विधिवत्रिसन्ध्यं पूजयिष्यति ॥९१ ।। प्रतिमायास्तथा तस्या वाचयित्वा स शासनम् । उदायनेन यद्दत्तं तत्प्रमाणीकरिष्यति ।। ९२ ॥ प्रतिमायाः स्थापनार्थं तस्यास्तत्रैव पार्थिवः । प्रासादं स्फटिकमयममायः कारयिष्यति ।। ९३ ।। प्रासादोऽष्टापदस्येव युवराजः स कारितः । जनयिष्यति संभाव्यो विस्मयं जगतोऽपि हि ।। ९४ ।। स भूपतिः प्रतिमया तत्र स्थापितया तया । एधिष्यते प्रतापेन ऋद्धया निःश्रेयसेन च ।। ९५ ।। देवभक्त्या गुरुभक्त्या त्वत्पितुः सदृशोऽभय ! । कुमारपालो भूपालः स भविष्यति भारते ।। ९६ ॥ इति श्रुत्वा नमस्कृत्य भगवन्तमथाभयः । उपश्रेणिकमागत्य वक्तुमेवं प्रचक्रमे ।। ९७ ।। भवामि तात ! राजा चेदृषिर्न स्यामहं तदा । श्रीवीरोऽन्तिमराजर्षि यदशंसदुदायनम् ।। ९८ ।। श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नोच्छेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः ।। ९९ ॥ नाम्नाऽहमभयस्तात सभयोऽस्मि भवात् पुनः । भुवनाभयदं वीरं तच्छ्रयामि समादिश ।। १०० ।। तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ।। १०१ ।। निर्बन्धादुच्यमानोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ।। १०२ ॥ राज्यं तृणमिव त्यक्त्वा संतोषसुखसद्म सः । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ।। १०३ ॥ आत्तव्रते सत्यभयेऽनुज्ञाप्य श्रेणिकं नपम् । श्रीमहावीरपादान्ते नन्दाऽपि व्रतमग्रहीत् ।। १०४ ।।
अभयकुमारस्यप्रव्रज्या।
||३५६॥