________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५५॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
प्रतिमां पांशुगुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसंगे स गुरोर्मुखात् ।। ७८ ।। पांशुस्थलं खानयित्वा प्रतिमा विश्वपावनीम् । आनेष्यामीति स तदा करिष्यति मनोरथम् ।।७९ ।। तदैव मनउत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमा हस्तगामिनीम् ।। ८० ।। ततो गुरुमनुज्ञाप्य नियोज्यायुक्तपूरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् ।। ८१ ।। सत्त्वेन तस्य परमार्हतस्य पृथिवीपतेः । करिष्यति च सांनिध्यं तदा शासनदेवता ।। ८२ ।। राज्ञः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमाने स्थले मंच प्रतिमाऽऽविर्भविष्यति ।। ८३ ।। तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ।। ८४ ।। नृपायुक्तास्तां प्रतिमा प्रत्नामपि नवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ।। ८५ ॥ पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं संगीतेषु निरन्तरम् ।। ८६ ।। तालिकारासकेषूच्चैर्भवत्सु ग्रामयोषिताम् । पंचशब्देष्वातोयेषु वाद्यमानेषु संमदात् ॥ ८७ ।। पक्षद्वये चामरेषूत्पतत्सु च पतत्सु च । नेष्यन्ति प्रतिमां तां चाऽऽयुक्ताः पत्तनसीमनि ।।८८ ।।
॥त्रिभिर्विशेषकम् ।। सान्तःपुरपरीवारश्चतुरंगचमूवृतः । सकलं संघमादाय राजा तामभियास्यति ।। ८९ ॥ स्वयं रथात्समुत्तार्य गजेन्द्रमधिरोह्य च । प्रवेशयिष्यति पुरे प्रतिमां तां स भूपतिः ।। ९० ॥
माविकुमारपालदेवचरित्रम् ।
||३५५॥