________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५४॥
दशमं पर्व द्वादशः सर्ग: श्रीमहावीरजिनचरितम् ।
पांडुप्रभृतिभिरपि या त्यक्ता मृगया न हि ।स स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाज्ञया ।। ६५ ॥ हिंसानिषेधके तस्मिन् दूरेऽस्तु मृगयाऽऽदिकम् । अपि मत्कुणयूकादि नान्त्यजोऽपि हनिष्यति ।। ६६ ।। तस्मिन्निषिद्धपापर्द्धावरण्ये मृगजातयः । सदाप्यविघ्नरोमन्था भाविन्यो गोष्ठधेनुवत् ।। ६७ ।। जलचरस्थलचरखेचराणां स देहिनाम् । रक्षिष्यति सदा मारिं शासने पाकशासनः ।।६८ ॥ ये चाऽऽजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याज्ञावशान्नेष्यति विस्मृतिम् ।। ६९ ॥ दशाहेर्न परित्यक्तं यत्पुरा श्रावकैरपि । तन्मद्यमनवद्यात्मा स सर्वत्र निरोत्स्यति ।। ७० ।। स तथा मद्यसन्धानं निरोत्स्यति महीतले । न यथा मद्यभाण्डानि घटयिष्यति चयपि ।। ७१ ।। मद्यपानां सदा मद्यव्यसनक्षीणसंपदाम् । तदाज्ञात्यक्तमद्यानां प्रभविष्यन्ति संपदः ।। ७२ ।। नलादिभिरपि क्ष्मापै तं त्यक्तं न यत्पुरा । तस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति ।। ७३ ।। पारापतपणक्रीडाकुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ।।७४ ।। स प्रायेण प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां जिनायतनमण्डिताम् ।। ७५ ।। प्रतिग्रामं प्रतिपुरमासमुद्र महीतले । रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति ।। ७६ ॥ दायं दायं द्रविणानि विरचय्यानृणं जगत् । अंकयिष्यति मेदिन्यां स संवत्सरमात्मनः ।।७७ ।। १°दीन् ।
भाविकुमारपालदेवचरित्रम् ।
॥३५४॥