________________
त्रिषष्टिशलाका
पुरुषचरिते
॥३७९ ॥
क्रोधमानमायालोभाभिभूतेन मया सदा । कृतं यद्यच्च हिंसाऽऽदि तत्त्रिधापि धिगस्तु मे ।। ४०१ ॥ एवमाराधनां कृत्वा नमस्कारपरायणः । विपद्य स्वर्गसुखभाजनतां ययौ ॥ ४०२ ॥ अशोकचन्द्रोऽपि पुरीं तां हलैर्युक्तरासभैः । खेटयित्वा क्षेत्रमिव स्वां प्रतिज्ञामपूरयत् ॥ ४०३ ॥ तीर्त्वा प्रतिज्ञां चंपेशी दुस्तरामापगामिव । जगाम चंपानगरीमुत्सवेन गरीयसा ।। ४०४ ।। अन्यदा पावयन् पृथ्वीं विहारेण जगद्गुरुः । जगाम चंपां श्रीवीरस्तत्रैव समवासरत् ।। ४०५ ।। श्रीवीरस्वामिनः पार्श्वे तत्र कालादिमातरः । विरक्ताः सूनुनिधनात् प्राव्रजञ्च्छ्रेणिकप्रियाः ॥ ४०६ ।। त्रैलोक्यसंशयच्छेदकारकं परमेश्वरम् । वन्दितुं तत्र समवसरणे कूणिकोऽप्यगात् ।। ४०७ ।।
त्वा नाथं यथास्थानमुपविश्याथ कूणिकः । पप्रच्छ लब्धावसरः शिरस्यारचिताञ्जलिः ॥ ४०८ ।। आजन्माप्यपरित्यक्तकामभोगा भवन्ति ये । कां नाम ते गतिं यान्ति चक्रिणः परमेश्वर ! ।। ४०९ ।। स्वाम्याख्यात्ते हि गच्छन्ति सप्तमीं नरकावनिम् । पप्रच्छ कूणिको भूयो भाविनी मम का गतिः ? ।। ४१० ।। आचख्यौ भगवान् षष्ठीं नरकोर्वीं गमिष्यसि । कूणिकः स्माह किमहं न हि यास्यामि सप्तमीम् ॥ ४११ ।। भगवानप्युवाचैवं चक्रवर्त्येव न ह्यसि । सति धर्मिणि धर्मा हि चिन्त्यन्ते श्रेणिकात्मज ! ॥ ४१२ ॥ अपृच्छत् कूणिकः किं न चक्रयहं परमेश्वर ! । ममापि चक्रितुल्याऽस्ति चतुरंगा वरूथिनी ॥ ४१३ ॥
१ "स्थर ।
दशमं पर्व
द्वादशः सर्गः
श्रीमहावीर
जिनचरितम् ।
कुणिकस्य
मृत्युः ।
।।३७९ ।।