________________
त्रिषष्टिशलाका
पुरुषचरि ॥३८० ॥
स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! । विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥। ४१४ ।। तच्छ्रुत्वोत्थाय चंपेशी महाऽहंकारपर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् ।। ४१५ ।। पद्मावतींस खीरत्नं रत्नानीभादिकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्थितः ॥ ४१६ ।। साधयन् भरतक्षेत्रं कूणिकोऽसह्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद्बलैः ।। ४१७ ।। अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपाटानि दंडेन त्रिरताडयत् ॥ ४१८ ॥ कृतमालामरः प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् ।। ४१९ ।। कूणिकोऽप्यवदत् किं मां जिगीषु वेत्सि नागतम् ? । अशोकचन्द्रनामाऽहमुत्पन्नश्चक्रवर्त्यहो ।। ४२० ।। कृतमालामरः स्माह चक्रिणो द्वादशाभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ॥ ४२१ ।। कूणिकोऽपि बभाणैवमहं चक्री त्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ॥। ४२२ ।। पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्यहो । ४२३ ॥ आधिदैविकदोषात्तमिवासंबद्धभाषिणम् । कूणिकं कृतमालो द्राग्रोषादकृत भस्मसात् ॥ ४२४ ॥ अशोकचन्द्रो राजैवं विपद्य नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा ।। ४२५ । आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुरुदायिनम् ॥ ४२६ ।। उदाय्यपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखंडशासनः पृथ्व्यां प्रथयन् जैनशासनम् ।। ४२७ ।
दशमं पर्व द्वादशः सर्गः
श्रीमहावीरजिन
चरितम् ।
कुणिकस्य मृत्युः ।
॥३८० ॥