SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥३८१ ॥ तस्य स्थानस्थितस्यापि प्रतापसवितुर्द्विषः । तेजोऽसहाः प्रविविशुर्धूकवद्गिरिगह्वरे ।। ४२८ ।। धर्मदानयुद्धभेदैस्तस्य वीरत्वमद्भुतम् । निदर्शनतया जज्ञे भूतसद्भाविभ्रभुजाम् ।। ४२९ ।। कदाऽपि तस्य नोत्पेदे भयं स्वपरचक्रजम् । बिभाय स पुनर्नित्यं श्रावकव्रतखंडनात् ।। ४३० ।। चतुःपर्व्यां चतुर्थादितपसा शुद्धिमुद्वहन् । सामायिकस्थस्तस्थौ स स्वस्थः पौषधसद्मनि ।। ४३१ ।। अर्हन्देवो गुरुः साधुरिति तस्य दिवानिशम् । मंत्राक्षरमिव ध्येयं हृदयादुत्ततार न ।। ४३२ ॥ अखंडिताज्ञत्रिखंडां दयावानपि सर्वदा । शशास जगतीमेतामुदाय्युदयभाग्नृपः ।। ४३३ ।। श्रीवीरस्वामिनो धर्मदेशनाममृतोपमाम् । आचम्याचम्य स सुधीरात्मानं पर्यपावयत् ।। ४३४ ।। एवमाकेवलज्ञानोत्पत्तेर्विहरतो महीम् । बभूवेति परीवारः स्वामिनश्चरमार्हतः ।। ४३५ ।। समजायन्त साधूनां सहस्राणि चतुर्दश । षट्त्रिंशत्तु सहस्राणि साध्वीनां शान्तचेतसाम् ।। ४३६ ।। चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् । त्रयोदशशत्यवधिज्ञानिनां सप्तशत्यथ ॥। ४३७ ।। वैक्रियलब्ध्यनुत्तरगतिकेवलिनां पुनः । मनोविदां पंचशती वादिनां तु चतुःशती ॥ ४३८ ॥ श्रावकाणां तु लक्षैकैकोनषष्टिसहस्रयुक् । श्राविकाणां तु त्रिलक्षी साष्टादशसहस्रिका ।। ४३९ ।। दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिन चरितम् । प्रभोः परिवारवर्णनम् । ।।३८१ ।।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy