Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 457
________________ त्रिषष्टिशलाकापुरुषचरिते ॥ ४०९ ।। पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याञ्चया, सांगं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयछन्दोऽलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ १८ ॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ १९ ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारुगिरां प्रपंचे ॥ २० ॥ जंबूद्वीपारविन्दे, कनकगिरिरसावश्नुते कर्णिकात्वं यावद्यावच्च धत्ते, जलनिधिरवनेरन्तरीयत्वमुच्चेः । यावद्व्योमाध्वपान्थौ, तरणिशशधरौ, भ्राम्यतस्तावदेतत् काव्यं नाम्ना शलाका-पुरुषचरितमि त्यस्तु जैनं धरित्र्याम् ॥ २१ ॥ इति प्रशस्तिः दशमं पर्व प्रशस्तिः । ।।४०९ ।।

Loading...

Page Navigation
1 ... 455 456 457 458