Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 425
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३७७॥ दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । केनाप्यौपयिकेनेदं स्तूपमुत्थाप्यते यदि । तदा भज्येत वैशाली नाऽन्यथा वज्रिणाऽपि हि ॥३७४ ।। चिन्तयन्निति बभ्राम वैशाल्यां कूलवालकः । अपृच्छ्यत च तल्लोकैः पुरीरोधकदर्थितैः ।। ३७५ ॥ वयं भदन्त ! दान्ताः स्मः पुरीरोधेन विद्विषा । यदि वेत्सि तदाऽऽख्याहि कदोद्वेष्ये भविष्यति ? ॥३७६ ॥ सोऽवदद्वेम्यहं सम्यग्यावत् स्तूपमिहास्त्यदः । नगर्यास्तावदुद्वेष्टो न भविष्यति हे जनाः ! ।। ३७७ ॥ स्तूपेऽस्मिन् भज्यमानेऽपि भावी प्रत्यय एष वः । द्विट्सैन्यं वार्धिवेलेवाकस्मादपसरिष्यति ॥ ३७८ ।। उत्कीलिते समन्तात्तु स्तूपे स्वस्त्यस्तु वो जनाः । कुलग्ने स्थापितमिदं मा मोहमिह यात भोः ।। ३७९ ।। तं स्तूपं भक्तुमारेभे धूर्त्तधीवञ्चितो जनः । सुखप्रतार्यः प्रायेण सर्वोऽपि व्यसनार्दितः ।। ३८० ।। भक्तुमारब्धमात्रेऽपि स्तूपे मागधिकापतिः । गत्वाऽपसारयामास द्विक्रोशीमथ कूणिकम् ।। ३८१ ।। उत्पन्नप्रत्ययो लोकस्तं स्तूपं कूपभेकधीः । कूर्मन्यासशिलां यावन्निर्मूलमुदमूलयत् ।। ३८२ ।। बभञ्ज द्वादशाब्द्यन्ते वैशालीं कूणिकस्ततः । स्तूपस्यैव प्रभावोऽभूत् पुरा हि दुरतिक्रमः ।। ३८३ ।। विरराम तदा चंपावैशालीनाथयो रणः । एतस्यामवसर्पिण्यामीदृशो न कदाऽप्यभूत् ।। ३८४ ।। भाणयामास वैशालीपतिं चंपापतिस्तदा । आर्य चेटक पूज्योऽसि किं करोमि तव प्रियम् ? ||३८५ ।। चेटकोऽपि विषण्णात्मा कूणिकं प्रत्यभाणयत् । जयोत्सवोत्सुकोऽपि त्वं विलंब्य प्रविशेः पुरीम् ।।३८६ ।। चेटकेन सह कुणिकस्य युद्धम्। ॥३७७॥ १ शम•LI

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458