Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 428
________________ त्रिषष्टिशलाका पुरुषचरि ॥३८० ॥ स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! । विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥। ४१४ ।। तच्छ्रुत्वोत्थाय चंपेशी महाऽहंकारपर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् ।। ४१५ ।। पद्मावतींस खीरत्नं रत्नानीभादिकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्थितः ॥ ४१६ ।। साधयन् भरतक्षेत्रं कूणिकोऽसह्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद्बलैः ।। ४१७ ।। अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपाटानि दंडेन त्रिरताडयत् ॥ ४१८ ॥ कृतमालामरः प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् ।। ४१९ ।। कूणिकोऽप्यवदत् किं मां जिगीषु वेत्सि नागतम् ? । अशोकचन्द्रनामाऽहमुत्पन्नश्चक्रवर्त्यहो ।। ४२० ।। कृतमालामरः स्माह चक्रिणो द्वादशाभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ॥ ४२१ ।। कूणिकोऽपि बभाणैवमहं चक्री त्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ॥। ४२२ ।। पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्यहो । ४२३ ॥ आधिदैविकदोषात्तमिवासंबद्धभाषिणम् । कूणिकं कृतमालो द्राग्रोषादकृत भस्मसात् ॥ ४२४ ॥ अशोकचन्द्रो राजैवं विपद्य नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा ।। ४२५ । आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुरुदायिनम् ॥ ४२६ ।। उदाय्यपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखंडशासनः पृथ्व्यां प्रथयन् जैनशासनम् ।। ४२७ । दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिन चरितम् । कुणिकस्य मृत्युः । ॥३८० ॥

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458