Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 431
________________ त्रयोदशः सर्गः । | दशमं पर्व त्रयोदशः त्रिषष्टिशलाकापुरुषचरिते ॥३८३॥ सर्ग: श्रीमहावीरजिनचरितम् । अथ तत्र सुराश्चक्रुर्वप्रत्रितयभूषितम् । रम्यं समवसरणं स्वामिनो देशनासदः ।।१ ॥ ज्ञात्वा निजायुःपर्यन्तमन्तिमा देशनां प्रभुः । कर्तुं तस्मिन्नुपाविक्षत् सुरासुरनिषेवितः ।। २ ॥ स्वामिनं समवसृतं ज्ञात्वाऽपापापुरीपतिः । हस्तिपालः समागत्य नत्वा च समुपाविशत् ।। ३ ।। शुश्रूषमाणास्तत्रास्थुर्यथास्थानं सुरादयः । एत्य नत्वा सहस्राक्ष इति स्वामिनमस्तवीत् ।। ४ ।। धर्माधर्मी विना नांग विनांगेन मुखं कुतः । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ।। ५ ।। अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किंचित् स्वातंत्र्यान्न पराऽऽज्ञया ॥६॥ क्रीडया चेत्प्रवर्तेत रागवान् स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥७॥ दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ।।८॥ कर्मापेक्षः स चेत्तर्हि न स्वतंत्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ॥९॥ अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तर्खेष परीक्षाक्षेपडिडिमः ॥१०॥ भगवतः अन्तिमा देशना। ॥३८३॥

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458