Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 452
________________ त्रिषष्टिशलाकापुरुषचरिते ।।४०४॥ गत्वा राजगृहे पुरे क्षतभवोपग्राहिकर्म प्रभु-भूत्वा मासमुपोषितः पदमगादक्षीणशर्मास्पदम् ।। २८२ ।। मुक्ते तत्र च पंचमो गणधरो लब्ध्वा सुधर्मप्रभु-निं पंचममन्वशाच्चिरतरं धर्म जनान् क्ष्मातले । प्राप्तो राजगृहाभिधाननगरे निःशेषमप्यन्यदा, जंबूस्वामिमुनेरधीनमनघं संघं निज निर्ममे ।। २८३ ।। तस्मिन्नेव पुरे सुधर्मगणभृत्क्षीणाष्टकर्मा क्रमा-तुर्यध्यानधरोऽपुनर्भवमगादद्वैतसौख्यं पदम् । पश्चादन्तिमकेवली क्षितितले श्रीवीरमार्गाग्रणी-धर्म भव्यजनान् प्रबोध्य सुचिरं जंबूप्रभुधान्यदा ।।२८४ ।। त्रैलोक्येऽपि हि सात्विकेष्वनवधेः प्राग्जन्ममोक्षावधि । श्रीमद्वीरजिनेश्वरस्य चरितं को वक्तुमीशोऽखिलम् ।। अस्ताघस्य तथापि हि प्रवचनाम्भोधेर्गृहीत्वा लवं किंचित्कीर्तितमीदृशं ननु मया स्वान्योपकारेच्छया ।। २८५ ।। दशमं पर्व त्रयोदशः सर्गः श्रीमहावीर जिन चरितम् । गौतमस्य मुक्तिः । इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरनिर्वाणगमनवर्णनो नाम त्रयोदशः सर्गः । दशमं पर्व समाप्तम् । ४०४॥ MAIDDA Miller

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458