Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 416
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३६८॥ चमरेन्द्रोऽप्यथ महाशिलाकंटकमाहवम् । अन्यं च रथमुशलं जैत्रं कर्तुममन्यत ।। २५२ ।। आद्ये शिलासन्निभः स्यात् पतितः कर्करोऽपि हि कंटकोऽपि च जायेत महाशस्त्राधिकः खलु ।।२५३ ।। द्वितीये रथमुशले भ्राम्यतो भ्रमकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् ।।२५४ ॥ सुरेन्द्रश्चासुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । ततस्त्रयो युयुधिरे सह चेटकसेनया ।।२५५ ।। पौत्रोऽथ नागरथिनो द्वादशव्रतपालकः । सम्यग्दृष्टिः षष्ठभोजी सदा भवविरक्तधीः ।। २५६ ।। राजाभियोगतः षष्ठभक्तान्तेऽपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः ।। २५७ ॥ संग्रामे रथमुशले दुःसहे तादृशेऽपि हि । प्राविशद्वरुणो नाम सेनानीः सत्यसंगरः ।।२५८।। ।। त्रिभिर्विशकम्।। स चंपापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनाऽसह्यरंहसा ।। २५९ ।। तौ संमुखीभूतरथौ डुढौकाते रणेच्छया । वैरायमाणौ भूमिष्ठभानुस्वर्भानुभीषणौ ।। २६० ।। चंपापतेश्चमूनाथो वरुणं रणमार्गणम् । प्रहर प्रहरेत्युच्चैर्व्याजहार पुरःस्थितम् ।। २६१ ।। वरुणः स्माह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ॥२६२ ।। साधु साधु महासत्त्वेत्युक्त्वा चपेशसैन्यपः । मुमोच बाणं वरुणो विविधे तेन मर्मणि ।। २६३ ।। ततः कूणिकसेनान्यं वरुणोऽरुणलोचनः । एकेनैव प्रहारेण निनाय यमसद्मनि ।। २६४ ।। १ भ्रामकं । दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् । SASRASHIFAIRS चेटकेन सह कुणिकस्य युद्धम् । ||३६८॥ ASRASHASALE

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458