Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७३॥
| दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
तच्छुत्वा मंत्रिणः प्रोचुस्तवैव पुरि विद्यते । वेश्या मागधिका देव ! न विद्मः कूलवालकम् ।। ३२० ।। तदैव मुक्त्वा सैन्याधं वैशालीरोधहेतवे । सैन्यार्धेन ययौ चंपा चंपापतिरिलापतिः ।।३२१ ॥ पण्यांगना मागधिकां मगधाधिपनन्दनः । आह्वास्त गतमात्रोऽपि त्वरितं वरमंत्रिवत् ।। ३२२ ।। आदिदेश च भद्रे ! त्वं धीमती त्वं कलावती । त्वया चानेकपुंसां धीराजन्माप्युपजीविता ॥३२३ ।। सफलीकुरु मत्कार्ये तद्वैशिककलां निजाम् । रमयित्वा पतित्वेन श्रमणं कूलवालकम् ।। ३२४ ॥ करोम्येवमिति च सा प्रपेदाना मनस्विनी । चंपानाथेन सच्चके वस्त्रालंकरणादिना ।। ३२५ ।। विसृष्य च गृहं गत्वा विमृश्य च धियां निधिः । तदैव मूर्त्ता मायेव सा मायाश्राविकाऽभवत् ।। ३२६ ॥ सा गर्भश्राविकाप्राया गृहिधर्म यथाविधि । अपि द्वादशधा लोके दर्शयामास सत्यवत् ॥ ३२७ ।। चैत्यपूजादिनिरतां धर्मश्रवणतत्पराम् । ऋज्वाशयाश्च विविदुराचार्याः श्राविकेति ताम् ।। ३२८ ।। सान्यदाऽपृच्छदाचार्यान् कः साधुः कूलवालकः । तद्भावमविदन्तश्च कथयन्ति स्म तेऽप्यदः ॥ ३२९ ॥ धर्मज्ञे! पंचधाऽऽचारनिरतो मुनिपुंगवः । एकोऽस्ति तस्य च क्षुल्ल एकः कपिरिवास्थिरः ।। ३३० ॥ सामाचारीपरिभ्रथे वारणास्मारणादिभिः । नोद्यमानो याति रोषं स तु क्षुल्लोऽतिदुर्नयः ।। ३३१ ॥ गुरुस्तु तस्य क्षुल्लस्य दुःश्रवामपि सादरः । आचारशिक्षा प्रददौ यदुक्तमिदमागमे ।।३३२ ॥ “परो रुष्यतु वा मा वा विषवत्प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ॥३३३ ।।
RSSIRSARSHASRHARS
चेटकेन सह कुणिकस्य युद्धम् ।
॥३७३॥

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458