Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 415
________________ दशमं पर्व द्वादशः त्रिषष्टिशलाकापुरुषचरिते ॥३६७॥ सर्गः श्रीमहावीरजिनचरितम् । युद्धं विसृज्य चपेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ।। २३८ ।। चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनात्यगुर्निशाम् ।।२३९ ॥ चंपानाथेनाभिषिक्तं सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः ।। २४० ।। अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमहन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् ।। २४१ ।। भातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चंपापतिरचिन्तयत् ।। २४२ ।। देवतायाः प्रसादेन जेतैकेनापि पत्रिणा । न ह्यायचेटको जय्यो मत्यैः कोटिमितैरपि ।। २४३ ।। प्रभावं चेटकस्याऽमुं मया हा धिगजानता । मयैव निधनं नीता देवाभा भ्रातरो दश ॥ २४४ ।। बभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नापसर्तुं च दृष्टभ्रातृवधस्य मे ।। २४५ ।। तद्देवतां समाराध्य तत्प्रभावाज्जयाम्यरिम् । दिव्यप्रभावो दिव्येन प्रभावेण हि बाध्यते ।। २४६ ॥ उपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः ।। २४७ ।। पूर्वजन्मसंगतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपेयतुः ।। २४८ ॥ ऊचाते तौ च देवेन्द्रासुरेन्द्रौ भोः किमिच्छसि ? । सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तन्निहन्यताम् ।। २४९ ।। शक्रो भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिकश्चेटको मे तं निहन्मि न जातुचित् ।।२५०॥ तथापि देहरक्षां ते करिष्यामि महीपते ! । यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ॥२५१ ।। चेटकेन सह कुणिकस्य युद्धम् । ||३६७॥

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458