Book Title: Trishashti Shakala Purush Charitam Part 6
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 395
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४७॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । अन्येधुर्विदिशां गत्वा भायलस्वामिनामकम् । देवकीयं पुरं चक्रे नाऽन्यथा धरणोदितम् ।। ६०५ ।। विद्युन्मालिकृतायै च प्रतिमायै महीपतिः । प्रददौ द्वादश ग्रामसहस्रान् शासनेन सः ।। ६०६ ।। अत्रान्तरे वीतभयस्थितं नृपमुदायनम् । एत्य प्रभावतीदेवः स्नेहेन प्रत्यबोधयत् ।। ६०७ ।। इहापि याऽस्ति प्रतिमा जीवतः स्वामिनो नवा । सापि राजन्नसामान्यप्रभावात्तीर्थमुत्तमम् ।। ६०८ ॥ ब्रह्मर्षिणा केवलिना कपिलेन महात्मना । श्वेताम्बरेण प्रतिमा ह्यसौ राजन् ! प्रतिष्ठिता ।। ६०९ ।। अग्रेतनी च प्रतिमा प्रतिमेयमपि त्वया । पूज्याऽथ सर्वविरतिरपि ग्राह्या महाफला ।। ६१०॥ उदायनोऽपि तद्वाचं प्रतिपेदे तथैव ताम् । तन्मनःकदलीमेघः स देवोऽपि तिरोदधे ।। ६११ ।। ततश्चान्येधुरुधुक्तो धर्मे राजाप्युदायनः । जग्राह पौषधौकस्थः पाक्षिकं पौषधव्रतम् ॥ ६१२ ।। रात्रिजागरणे तस्य शुभध्यानेन तस्थुषः । ईदृगध्यवसायोऽभूद्विवेकस्य सहोदरः ।। ६१३ ।। धन्यास्ते नगरपामा ये श्रीवीरेण पाविताः । राजादयोऽपि ते धन्या यैर्धर्मोऽश्रावि तन्मुखात् ।। ६१४ ।। तत्पादपद्मसान्निध्यात्प्रतिबोधमवाप्य ये । गृहिधर्म द्वादशधा शिश्रियुः कृतिनो हि ते ।। ६१५ ॥ तत्प्रसादाच्च ये सर्वविरतिं प्रतिपेदिरे । ते श्लाघ्या वन्दनीयास्ते तेभ्यो नित्यं नमो नमः ।। ६१६ ॥ स्वामी वीतभयमपि विहारेण पुनाति चेत् । तत्पादमूले प्रव्रज्यामादाय स्यां तदा कृती ।।६१७ ॥ १जीवंत । उदायननृपतिचरित्रम् । ॥३४७॥

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458