________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४७॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
अन्येधुर्विदिशां गत्वा भायलस्वामिनामकम् । देवकीयं पुरं चक्रे नाऽन्यथा धरणोदितम् ।। ६०५ ।। विद्युन्मालिकृतायै च प्रतिमायै महीपतिः । प्रददौ द्वादश ग्रामसहस्रान् शासनेन सः ।। ६०६ ।। अत्रान्तरे वीतभयस्थितं नृपमुदायनम् । एत्य प्रभावतीदेवः स्नेहेन प्रत्यबोधयत् ।। ६०७ ।। इहापि याऽस्ति प्रतिमा जीवतः स्वामिनो नवा । सापि राजन्नसामान्यप्रभावात्तीर्थमुत्तमम् ।। ६०८ ॥ ब्रह्मर्षिणा केवलिना कपिलेन महात्मना । श्वेताम्बरेण प्रतिमा ह्यसौ राजन् ! प्रतिष्ठिता ।। ६०९ ।। अग्रेतनी च प्रतिमा प्रतिमेयमपि त्वया । पूज्याऽथ सर्वविरतिरपि ग्राह्या महाफला ।। ६१०॥ उदायनोऽपि तद्वाचं प्रतिपेदे तथैव ताम् । तन्मनःकदलीमेघः स देवोऽपि तिरोदधे ।। ६११ ।। ततश्चान्येधुरुधुक्तो धर्मे राजाप्युदायनः । जग्राह पौषधौकस्थः पाक्षिकं पौषधव्रतम् ॥ ६१२ ।। रात्रिजागरणे तस्य शुभध्यानेन तस्थुषः । ईदृगध्यवसायोऽभूद्विवेकस्य सहोदरः ।। ६१३ ।। धन्यास्ते नगरपामा ये श्रीवीरेण पाविताः । राजादयोऽपि ते धन्या यैर्धर्मोऽश्रावि तन्मुखात् ।। ६१४ ।। तत्पादपद्मसान्निध्यात्प्रतिबोधमवाप्य ये । गृहिधर्म द्वादशधा शिश्रियुः कृतिनो हि ते ।। ६१५ ॥ तत्प्रसादाच्च ये सर्वविरतिं प्रतिपेदिरे । ते श्लाघ्या वन्दनीयास्ते तेभ्यो नित्यं नमो नमः ।। ६१६ ॥ स्वामी वीतभयमपि विहारेण पुनाति चेत् । तत्पादमूले प्रव्रज्यामादाय स्यां तदा कृती ।।६१७ ॥ १जीवंत ।
उदायननृपतिचरित्रम् ।
॥३४७॥