SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व एकादशः सर्गः श्रीमहावीर त्रिषष्टिशलाकापुरुषचरिते ॥३४८॥ वयं चाभय ! तज्ज्ञात्वा तदनुग्रहकाम्यया । चम्पापुर्याः प्रचलिताः समवासार्म तत्पुरे ।। ६१८ ।। अस्मान् प्रणम्य श्रुत्वा च देशनां गतवान् गृहे । एवं स चिन्तयामास स्वविवेकगुणोचितम् ।। ६१९ ।। सूनवेऽभीचये राज्यं व्रतेच्छुश्चेद्ददाम्यहम् । संसारनाटकनटस्तन्मयैष कृतो भवेत् ।। ६२० ॥ उशन्ति नरकान्तं हि राज्यं नीतिविदोऽपि च । तत्सूनवे न दास्येऽहं दास्ये चेत्तन्न तद्धितः ।। ६२१ ।। इति केशिनि जामेये राज्यश्रियमुदायनः । सद्यः संक्रमयामास तेजोऽर्क इव पावके ।। ६२२ ।। जीवन्तस्वामिदेवाय पूजार्थमथ पार्थिवः । शासनेन ददौ भूरि ग्रामाकरपुरादिकम् ।। ६२३ ॥ ततः केशिनरेन्द्रेण कृतनिष्क्रमणोत्सवः । अस्मत्पार्चे परिव्रज्यामुदायन उपात्तवान् ।। ६२४ ।। स तपोभिः षष्ठाष्टमदशमद्वादशादिभिः । व्रताहादपि कर्मेव स्वमात्मानमशोषयत् ।। ६२५ ।। तृणमिव परिहृत्य राज्यलक्ष्मी श्रामण्यं प्रतिपन्नवान् विशुद्धम् । इत्यभयकुमार ! कीर्तितस्ते चरमो राजर्षिर्युदायनाख्यः ।। ६२६ ।। जिनचरितम् । उदायननृपतिचरित्रम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ) दशमपर्वणिरौहिणेयचरिता-भयकुमारा-पहारोदायनचरित प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनो नामैकादशः सर्गः । ॥३४८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy