________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४९॥
दशमं पर्व द्वादशः
द्वादशः सर्गः ।
वर्ग:
श्रीमहावीरजिनचरितम् ।
उदायननृपतिचरित्रम् ।
अपृच्छदभयो भूयः प्रणम्य परमेश्वरम् । उदायनस्य राजर्षेः क उदर्को भविष्यति ? ||१ ।। प्रकृष्टतीर्थकृत्कर्मनिर्जरानिरतस्ततः । कथयामास भगवानिति श्रीज्ञातनन्दनः ।।२ ॥ एकदोदायनमुनेः पृथ्व्यां विहरतः सतः । उत्पत्स्यते महाव्याधिरकालापथ्यभोजनैः ।।३ ।। अनवद्याशयैवैद्यैः सोऽन्यदा वक्ष्यते मुनिः । भुक्ष्व देहनिरीहोऽपि गुणरत्नोदधे! दधि ।। ४ ।। विहरिष्यत्यथो गोष्ठेषूदायनमहामुनिः । सुलभा दधिभिक्षा हि तत्र दोषविवर्जिता ।। ५ ।। अन्यदोदायनो वीतभयं यास्यति पत्तनम् । भूभुजा भागिनेयेन केशिना समधिष्ठितम् ।। ६ ।। ज्ञात्वोदायनमायातं केश्यमात्यैर्भणिष्यते । निर्विण्णस्तपसामेष नियतं तव मातुलः ।।७।। ऋद्धं राज्यं बैन्द्रपदं तत्त्यक्त्वाऽनुशयं दधत् । नूनं राज्यार्थमेवाऽऽगाद्विश्वसीर्मा स्म सर्वथा ।। ८ ॥ केशी वक्ष्यत्यसौ राज्यं गृह्णात्वद्यापि कोऽस्म्यहम् । गोपालस्य हि कः कोपो धनं गृह्णाति चेद्धनी ।। ९ ।। वक्ष्यन्ति मंत्रिणः पुण्यैस्तव राज्यमुपस्थितम् । प्रदत्तं न हि केनापि राजधर्मोऽपि नेदृशः ॥ १० ॥
| ॥३४९॥