________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५०॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
पितृर्धातुर्मातुलाद्वा सुहृदो वाऽपरादपि । प्रसह्याप्याहरेद्राज्यं तद्दत्तं को हि मुञ्चति ॥ ११ ॥ तैरेवमुदितोऽत्यर्थं त्यक्त्वा भक्तिमुदायने । केशी प्रक्ष्यति किं कार्य ? दापयिष्यन्ति ते विषम् ।। १२ ।। विषेण संस्कृत्य दधि पशुपालिकयैकया । केशी दापयिता तस्मै परप्रेर्यस्य का मतिः ? ।। १३ ।। तद्विषं देवता हृत्वा मुनिमेवं भणिष्यति । सविषो दधिलाभस्ते मा कृथास्तद्दधिस्पृहाम् ।। १४ ।। ततः परिहते दध्नि रोगो वर्धिष्यते मुनेः । व्याधयो हि विजृम्भन्ते छलमासाद्य भूतवत् ।। १५ ।। रोगनिग्रहणार्थं स पुनरादास्यते दधि । विषापहारं त्रीन् वारान देवता सा करिष्यति ।। १६ ।। अन्यदा तु प्रमादेन तद्विषं देवताऽपि सा । न हरिष्यत्यथ मुनिः सविषं दधि सोऽत्स्यति ।। १७ ।। ततश्चैतन्यचौरीभिर्विषवीचीभिरात्मनः । ज्ञातावसानोऽनशनं महर्षिः स प्रपत्स्यते ।। १८ ।। त्रिंशद्दिनमनशनं पालयित्वा समाधिना । उत्पन्नकेवलज्ञानो विपद्य शिवमेष्यति ।। १९ ।। उदायने शिवगते देवता पुनरेयुषी । ज्ञात्वा तादृक्कालरात्रिरिव कोपमुपेष्यति ॥२०॥ कोपाच्च सा वीतभयं पूरयिष्यति पांशुभिः । तदादि पांशुवृष्टिं च करिष्यति निरन्तरम् ।। २१ ॥ तदैव प्रतिमा साऽपि कपिलर्षिप्रतिष्ठिता । भविष्यति महाभाग ! निधानमिव भूगता ।। २२ ।। शय्यातरं कुंभकारमुदायनमहामुनेः । अनागसं ततो ही देवता पांशुवर्षिणी ।। २३ ।। १ तत्परम् । २ मोक्ष्यते ।
भाविकुमारपालदेवचरित्रम् ।
॥३५०॥