________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५१॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
सिनपल्लयां च तं नीत्वा तन्नाम्नैव हि देवता । कुंभकारकृतमिति तत्र स्थानं करिष्यति ।। २४ ।। पुनरप्यभयोऽपृच्छत्प्रणम्य परमेश्वरम् । उदायनकुमारस्याभीचेः का भाविनी गतिः ।। २५ ॥ स्वाम्याख्यत् केशिने राज्यं प्रदत्तवति वप्तरि । स हि प्रभावतीसूनुरभीचिश्चिन्तयिष्यति ।। २६ ॥ मयि सत्यपि भक्तेऽपि पुत्रे राज्याधिकारिणि । तातोऽदात् केशिने राज्यं राज्यर्णमिव धारयन् ।। २७ ॥ विवेको मत्पितुः कोऽयं भगिनीनन्दनाय यत् । केशिनेऽदाददो राज्यं हन्त काराधिकारिणे ।। २८ ।। तातः प्रभुर्मे स स्वैरं यदिच्छति करोतु तत् । केशिनोऽद्य कथं सेवां करिष्ये तत्सुतोऽस्मि हि ॥ २९ ॥ इति पित्राऽभिभूतः सोऽभिगमिष्यति कूणिकम् । अभिमानवतां श्रेयान् विदेशो हि पराभवे ।। ३० ।। अथ मातृष्वसेयेन कूणिकेन सगौरवम् । वीक्ष्यमाणः सदाऽभीचिः सुखं स्थास्यति तत्र च ।। ३१ ॥ श्रमणोपासकः सम्यग्जीवाजीवादितत्त्ववित् । अभीचिः श्रावकधर्म यथावत् पालयिष्यति ।। ३२ ।। गृहिधर्म समा बह्वीः पालयन्नप्यखंडितम् । पराभवं स्मरन् वैरं न स हास्यत्युदायने ॥ ३३ ॥ कृत्वा संलेखनां सम्यक् पाक्षिकानशनेन सः । पितृवैरमनालोच्य मृत्वा भाव्यसुरोत्तमः ।। ३४ ।। एवं पल्योपमं तत्र परिपाल्यायुरात्मनः । महाविदेहेषूत्पद्याभीचिजीवः शिवंगमी ।।३५ ।। पृच्छति स्माभयोऽथैवं कपिलर्षिप्रतिष्ठिता । प्रकाशमेष्यति कदा प्रतिमा परमेश्वर! ॥३६॥ स्वाम्याख्याति स्म सौराष्ट्रलाटगुर्जरसीमनि । क्रमेण नगरं भावि नाम्नाऽणहिलपाटकम् ।। ३७ ॥
ॐRSSRASSHRSHASHRAS2009
भाविकुमारपालदेवचरित्रम् ।
॥३५१॥