________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५२॥
दशमं पर्व द्वादशः सर्गः श्रीमहावीरजिनचरितम् ।
आर्यभूमेः शिरोरत्नं कल्याणानां निकेतनम् । एकातपत्रार्हद्धर्म तद्धि तीर्थ भविष्यति ॥ ३८ ॥ चैत्येषु रत्नमय्योऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् ।।३९ ॥ भासुरस्वर्णकलशश्रेण्यलंकृतमौलिभिः । रोचिष्यते च तच्चैत्यैर्विश्रान्ततपनैरिव ।। ४० ॥ श्रमणोपासकस्तत्र प्रायेण सकलो जनः । कृतातिथिसंविभागो भोजनाय यतिष्यते ।। ४१ ॥ परसंपद्यनीालुः संतुष्टश्च स्वसंपदा । पात्रेषु दानशीलश्च तत्र लोको भविष्यति ॥ ४२ ॥ श्राद्धाश्च धनिनस्तत्रालकायामिव गुह्यकाः । वप्स्यन्ति द्रविणं सप्तक्षेत्र्यामत्यन्तमार्हताः ।। ४३ ।। परस्वपरदारेषु सर्वः कोऽपि पराङ्मुखः । भावी तस्मिन् पुरे लोकः सुषमाकालभूरिव ।। ४४ ।। अस्मन्निर्वाणतो वर्षशतान्यभय षोडश । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥ ४५ ॥ कुमारपालो भूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ ४६ ।। स महात्मा धर्मदानयुद्धवीरः प्रजां निजाम् । ऋद्धि नेष्यति परमां पितेव परिपालयन् ।। ४७ ।। ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं मामविष्यति ।। ४८ ।। स आत्मसदृशं लोकं धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवान्तेवासिनं हितः ।। ४९ ।। शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्म बहु मंस्यते ।। ५० ।। पराक्रमेण धर्मेण दानेन दययाऽऽज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति ।। ५१ ॥
भाविकुमारपालदेवचरित्रम् ।
||३५२॥